पूर्वखण्डः (आचारकाण्डः), अध्याय 147, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरनिदानादिकं नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः श्रीगरुडमहापुराणम्- १४८ धन्वन्तरिरुवाच ।
अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् ।
भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥
१,१४८.१ ॥