पूर्वखण्डः (आचारकाण्डः), अध्याय 146, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे सर्वरोगनिदानं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः श्रीगरुडमहापुराणम्- १४७ धन्वन्तरिरुवाच ।
वक्ष्ये ज्वरनिदानं हि सर्वज्वरविबुद्धये ।
ज्वरो रोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः ।
क्रुद्धदक्षाध्वरध्वंसिरुद्रोर्ध्वनयनोद्भवः ॥
१,१४७.१ ॥