पूर्वखण्डः (आचारकाण्डः), अध्याय 133, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवमीव्रतं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः श्रीगरुडमहापुराणम्- १३४ ब्रह्मोवाच ।
महाकौशिकमन्त्रश्च कथ्यतेऽत्र महाफलः ॥
१,१३४.१ ॥
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवमीव्रतं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः श्रीगरुडमहापुराणम्- १३४ ब्रह्मोवाच ।
महाकौशिकमन्त्रश्च कथ्यतेऽत्र महाफलः ॥
१,१३४.१ ॥
(महाकौशिकमन्त्रः)-ॐ महाकौशिकाय नमः ।
ॐ हूं हूं प्रस्फुर लल लल कुल्व कुल्व चुल्व चुल्व खल्ल खल्ल मुल्व मुल्व गुल्व गुल्व तुल्व पुल्ल पुल्ल धल्व धुल्व धुम धुम धमधम मारय मारय धकधक वज्ञापयज्ञापय विदारयविदारय कम्पकम्प कम्पयकम्पय पूरयपूरय आवेशयावेशय ॐ ह्रीं ॐ ह्रीं हं वं वं हुं तटतट मदमद ह्रीं ॐ हूं नैरृताया नमः निरृतये दातव्यम् ।
महाकौशिकमन्त्रेण मन्त्रितं बलिमर्पयेत् ॥
१,१३४.२ ॥
तस्याग्रतो नृपः स्नायाच्छत्रं कृत्वा च पैष्टिकम् ।
खड्गेन घातयित्वा तु दद्यात्स्कन्दविशाखयोः ॥
१,१३४.३ ॥
मातॄणां चैव देवीनां पूजा कार्या तथा निशि ।
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥
१,१३४.४ ॥
वाराही चैव माहेन्द्री चामुण्डा चण्डिका तथा ।
जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥
१,१३४.५ ॥
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ।
क्षीराद्यैः स्नापयेद्देवीं कन्यकाः प्रमदास्तथा ॥
१,१३४.६ ॥
द्विजाती (दी) नथ पाषण्डानन्नदानेन पूजयेत् ।
ध्वजपत्रपताकाद्यै रथयात्रासु वस्त्रकैः ।
महानवम्यां पूजेयं जयराज्यादिदायिका ॥
१,१३४.७ ॥