पूर्वखण्डः (आचारकाण्डः), अध्याय 127, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम सप्तविंशत्युत्तरशततमोऽध्यायः श्रीगरुडमहापुराणम्- १२८ ब्रह्मोवाच ।
व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः ।
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम् ॥
१,१२८.१ ॥