पूर्वखण्डः (आचारकाण्डः), अध्याय 126, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये श्रीगरुडमहापुराणम्- १२७ ब्रह्मोवाच ।
माघमासे शुक्लपक्षे सूर्यर्क्षेण युता पुरा ।
एकादशी तथा चैका भीमेन समुपोषिता ॥
१,१२७.१ ॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये श्रीगरुडमहापुराणम्- १२७ ब्रह्मोवाच ।
माघमासे शुक्लपक्षे सूर्यर्क्षेण युता पुरा ।
एकादशी तथा चैका भीमेन समुपोषिता ॥
१,१२७.१ ॥
आश्चर्य तु व्रतं कृत्वा पितॄणामनृणोऽभवत् ।
भीमद्वादशी विख्याता प्राणिनां पुण्यवर्धिनी ॥
१,१२७.२ ॥
नक्षत्रेण विनाप्येषा ब्रह्महत्यादि नाशयेत् ।
विनिहन्ति महापापं कुनृपो विषयं यथा ॥
१,१२७.३ ॥
कुपुत्त्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा ।
अधर्मं च यथा धर्मः कुमन्त्री च यथा नृपम् ॥
१,१२७.४ ॥
अज्ञानेन यथा ज्ञानं शौचमाशौचकं यथा ।
अश्रद्धया यथा श्रद्धा सत्यञ्चैवानृतैर्यथा ॥
१,१२७.५ ॥
हिमं यथोष्णमाहन्यादनर्थं चार्थसंचयः ।
यथा प्रकर्तिनाद्दानं तपो वै विस्मयाद्यथा ॥
१,१२७.६ ॥
अशिक्षया यथा पुत्रो गावो दूरगतैर्यथा ।
क्रोधेन च यथा शान्तिर्यथा वित्तमवद्धनात् ॥
१,१२७.७ ॥
ज्ञानेनैयथा विद्या निष्कामेन यथा फलम् ।
तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभा ॥
१,१२७.८ ॥
ब्रह्महत्या सुरा पान स्तेयं गुर्वङ्गनागमः ।
युगपत्तुप्रजातानिहन्ति त्रिपुष्करम् ॥
१,१२७.९ ॥
न चापि नैमिषं क्षेत्रं कुरुक्षेत्रं प्रभासकम् ।
कालिन्दी यमुना गङ्गा न चैव न सरस्वती ॥
१,१२७.१० ॥
चैव सर्वतीर्थानि एकादश्याः समानि हि ।
न दानं न जपो होमो न चान्यत्सुकृतं क्रचित् ॥
१,१२७.११ ॥
एकतः पृथिवीदानमेकतो हरिवासरः ।
ततोऽप्येका महापुण्या इयमेकादशी वरा ॥
१,१२७.१२ ॥
अस्मिन्वराहपुरुषं कृत्वा देवं तु हाटकम् ।
घटोपरि नवे पात्रे कृत्वा वै ताम्रभाजने ॥
१,१२७.१३ ॥
सर्वबीजभृते विप्राः सितवस्त्रावगण्ठिते ।
सहिरण्यप्रदीपाद्यैः कृत्वा पूजां प्रयत्ननः ॥
१,१२७.१४ ॥
वराहाय नमः पादौ क्रोडाकृतये नमः कटिम् ।
नाभिं गंभीरघोषया उरः श्रीवत्सधारिणे ॥
१,१२७.१५ ॥
बाहुं सहस्रशिरसे ग्रीवां सर्वेश्वराय च ।
मुखं सर्वात्मने पूज्यं ललाटं प्रभवाय च ॥
१,१२७.१६ ॥
केशाः शतमयूखाय पूज्या देवस्य चक्रिणः ।
विधिना पूजयित्वा तु कृत्वा जागरणं निशि ॥
१,१२७.१७ ॥
श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम् ।
प्रातर्विप्राय दत्त्वा च याचकाय शुभाय तत् ॥
१,१२७.१८ ॥
कनकक्रोडसहितं सन्निवेद्य परिच्छदम् ।
पश्चात्तु पारणं कुर्यान्नातितृप्तः सकृद्व्रतः ॥
१,१२७.१९ ॥
एवं कृत्वा नरो विद्यान्न भूय स्तनपो भवेत् ।
उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात् ।
मनोऽभिलषितावाप्तिः कृत्वा सर्वव्रतादिकम् ॥
१,१२७.२० ॥