Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114

Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे चतुर्दशोत्तरशततमोऽध्यायः श्रीगरुडमहापुराणम्- ११५ सूत उवाच ।

कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम् ।

कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥

१,११५.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 2

धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।

मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥

१,११५.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 3

धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ।

परचित्तगतान्दारान्पुत्रं कुव्यसने स्थितम् ॥

१,११५.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 4

कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः ।

सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥

१,११५.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 5

परान्नं च परस्वं च परशय्याः परस्त्रियः ।

परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥

१,११५.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 6

आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात् ।

आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥

१,११५.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 7

स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति ।

गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥

१,११५.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 8

आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात् ।

ततः संक्रमते पापं घटाद्धट इवोदकम् ॥

१,११५.८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 9

लालने बहवो दोषास्ताडने बहवो गुणाः ।

तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥

१,११५.९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 10

अध्वा जरा देहवतां पर्वतानां जलं जरा ।

असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥

१,११५.१० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 11

अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः ।

उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

१,११५.११ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 12

मानो हि मूलमर्थस्य माने सति धनेन किम् ।

प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥

१,११५.१२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 13

अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।

उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

१,११५.१३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 14

वनेऽपि सिंहा न नमन्ति कं च बुभु क्षिता मांसनिरीक्षणं च ।

धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥

१,११५.१४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 15

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।

नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥

१,११५.१५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 16

वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी ।

वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥

१,११५.१६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 17

दाता दरिद्रः कृपणोऽर्थयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा ।

परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥

१,११५.१७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 18

कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा ।

दारिद्र्याभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥

१,११५.१८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 19

चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः ।

नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥

१,११५.१९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 20

वश्यश्च पुर्त्रेऽर्थ करी च विद्या अरोगिता सज्जनसङ्गतिश्च ।

इष्टा च भार्या वशवर्तिनी च दुःखस्य मूलोद्धरणानि पञ्च ॥

१,११५.२० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 21

कुरङ्गमातङ्गपतङ्गभृङ्गा मीना हताः पञ्चभिरेव पञ्च ।

एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥

१,११५.२१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 22

अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।

पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥

१,११५.२२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 23

आयुः कर्म च वित्तं च विद्या निधनमेव च ।

पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥

१,११५.२३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 24

पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे ।

पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥

१,११५.२४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 25

अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः ।

पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥

१,११५.२५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 26

अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् ।

अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥

१,११५.२६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 27

शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी ।

व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥

१,११५.२७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 28

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् ।

किञ्चिद्वन्धुवियोगदुःखमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥

१,११५.२८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 29

अहोरात्रमयो लोके जरारूपेण संचरेत् ।

मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥

१,११५.२९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 114, Verse 30

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् ।

सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥

१,११५.३० ॥