पूर्वखण्डः (आचारकाण्डः), अध्याय १, Verse 1
गरुडपुराण श्रीगणाधिपतये नमः ।
सरस्वत्यैनमः ।
अथ श्रीगरुडमहापुराणं प्रारभ्यते ।
तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते ।
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
मंगलाचरणम् .१ ॥
ॐ अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् ।
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ॥
१,१.१ ॥