Devi Upanishad

Complete Upanishad

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Upanishad

Complete Upanishad, Verse 1

॥

अथ देव्युपनिषत् ॥

अथर्ववेदीय शाक्तोपनिषत् ॥

श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।

त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभि-

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दध्हातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

सर्वे वै देवा देवीमुपतस्थुः ।

कासि त्वं महादेवि ।

साब्रवीदहं ब्रह्मस्वरूपिणी ।

मत्तः प्रकृतिपुरुषात्मकं

जगच्छून्यं चाशून्यं च ।

अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् ।

ब्रह्मा ब्रह्मणि

वेदितव्ये ।

इत्याहाथर्वणि श्रुतिः

Devi Upanishad

Complete Upanishad, Verse 2

अहं पञ्चभूतान्यपञ्चभूतानि ।

अहमखिलं जगत् ।

वेदोऽहमवेदोऽहम् ।

विद्याहमविद्याहम् ।

अजाहमनजाहम् ।

अधश्चोर्ध्वं च तिर्यक्चाहम् ।

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।

अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ।

अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ।

विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ।

अहं

दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते

Devi Upanishad

Complete Upanishad, Verse 3

अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य

मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।

य एवं वेद स

देवीपदमाप्नोति ।

ते देवा अब्रुवन् ।

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्

Devi Upanishad

Complete Upanishad, Verse 4

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।

दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः

Devi Upanishad

Complete Upanishad, Verse 5

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति

।

सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु

Devi Upanishad

Complete Upanishad, Verse 6

कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।

सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम्

Devi Upanishad

Complete Upanishad, Verse 7

महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि ।

तन्नो देवी प्रचोदयात्

Devi Upanishad

Complete Upanishad, Verse 8

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।

तां देवा

अन्वजायन्त भद्रा अमृतबन्धवः

Devi Upanishad

Complete Upanishad, Verse 9

कामो योनिः कामकला वज्रपाणिर्गुहा हसा ।

मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च

पुनः कोशा विश्वमाता दिवि द्योम्

Devi Upanishad

Complete Upanishad, Verse 10

एषात्मशक्तिः ।

एषा विश्वमोहिनी

पाशाङ्कुशधनुर्बाणधरा ।

एषा श्रीमहाविद्या ।

य एवं वेद स शोकं तरति ।

नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः ।

सैषाष्टौ वसवः ।

सैषैकादश रुद्राः ।

सैषा

द्वादशादित्याः ।

सैषा विश्वेदेवाः

सोमपा असोमपाश्च ।

सैषा यातुधानु असुरा रक्षांसि

पिशाचयक्षाः सिद्धाः ।

सैषा सत्त्वरजस्तमांसि ।

सैषा प्रजापतीन्द्रमनवः ।

सैषा ग्रहा नक्षत्रज्योतींषि

कलाकाष्ठादिकालरूपिणी ।

तामहं प्रणौमि नित्यम् ।

तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।

अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम्

Devi Upanishad

Complete Upanishad, Verse 11

वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् ।

अर्धेन्दुलसितं

देव्या बीजं सर्वार्थसाधकम्

Devi Upanishad

Complete Upanishad, Verse 12

एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।

ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः

Devi Upanishad

Complete Upanishad, Verse 13

वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् ।

सूर्यो

वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः

Devi Upanishad

Complete Upanishad, Verse 14

नारायणेन संयुक्तो वायुश्चाधरसंयुतः ।

विच्चे

नवार्णकोऽर्णः स्यान्महदानन्ददायकः

Devi Upanishad

Complete Upanishad, Verse 15

हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।

पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।

त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे

Devi Upanishad

Complete Upanishad, Verse 16

नमामि त्वामहं देवीं महाभयविनाशिनीम् ।

महादुर्गप्रशमनीं महाकारुण्यरूपिणीम्

Devi Upanishad

Complete Upanishad, Verse 17

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया ।

यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता ।

यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या ।

यस्या

जननं नोपलभ्यते तस्मादुच्यतेऽजा ।

एकैव सर्वत्र वर्तते तस्मादुच्यत एका ।

एकैव विश्वरूपिणी

तस्मादुच्यते नैका ऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति ।

मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।

ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी

Devi Upanishad

Complete Upanishad, Verse 18

यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।

[दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते

Devi Upanishad

Complete Upanishad, Verse 19

प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥

]

तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।

नमामि भवभीतोऽहं संसारार्णवतारिणीम्

Devi Upanishad

Complete Upanishad, Verse 20

इदमथर्वशीर्षं योऽधीते

पञ्चाथर्वशीर्षजपफलमवाप्नोति ।

इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति ।

शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति ।

शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः

Devi Upanishad

Complete Upanishad, Verse 21

दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।

महादुर्गाणि

तरति महादेव्याः प्रसादतः

Devi Upanishad

Complete Upanishad, Verse 22

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति ।

निशीथे

तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति ।

नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।

प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।

भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति

।

य एवं वेदेत्युपनिषत्