स्कन्ध 5, अध्याय 11: ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम्, Verse 1
५.११ एकादशोऽध्यायः ।
ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा महिषो मदविह्वलः ।
मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत् ॥ १॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.११ एकादशोऽध्यायः ।
ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा महिषो मदविह्वलः ।
मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत् ॥ १॥
राजोवाच ।
मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् ।
आगता देवविहिता मायेयं शाम्बरीव किम् ॥ २॥
कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः ।
सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च ॥ ३॥
मन्त्रिण ऊचुः ।
सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम ।
कार्यं हितकरं नूनं विचार्य विबुधैः किल ॥ ४॥
सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् ।
यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम् ॥ ५॥
सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते ।
वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः ॥ ६॥
कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह ।
शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये ॥ ७॥
राजोवाच ।
स्वस्वमत्यनुसारेण ब्रुवन्त्वद्य पृथक्पृथक् ।
येषां हि यादृशो भावस्तच्छ्रुत्वा चिन्तयाम्यहम् ॥ ८॥
बहूनां मतमाज्ञाय विचार्य च पुनः पुनः ।
यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः ॥ ९॥
व्यास उवाच ।
तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः ।
उवाच तरसा वाक्यं रञ्जयन्पृथिवीपतिम् ॥ १०॥
विरूपाक्ष उवाच ।
राजन्नारी वराकीयं सा ब्रूते मदगर्विता ।
विभीषिकामात्रमिदं ज्ञातव्यं वचनं त्वया ॥ ११॥
को बिभेति स्त्रियो वाक्यैर्दुरुक्तै रणदुर्मदैः ।
अनृतं साहसं चेति जानन्नारीविचेष्टितम् ॥ १२॥
जित्वा त्रिभुवनं राजन्नद्य कान्ताभयेन वै ।
दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत् ॥ १३॥
तस्माद्याम्यहमेकाकी युद्धाय चण्डिकां प्रति ।
हनिष्ये तां महाराज निर्भयो भव साम्प्रतम् ॥ १४॥
सेनावृतोऽहं गत्वा तां शस्त्रास्त्रैर्विविधैः किल ।
निषूदयामि दुर्मर्षां चण्डिकां चण्डविक्रमाम् ॥ १५॥
बद्ध्वा सर्पमयैः पाशैरानयिष्ये तवान्तिकम् ।
वशगा तु सदा ते स्यात्पश्य राजन् बलं मम ॥ १६॥
व्यास उवाच ।
विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमब्रवीत् ।
सत्यमुक्तं वचो राजन् विरूपाक्षेण धीमता ॥ १७॥
ममापि वचनं श्लक्ष्णं श्रोतव्यं धीमता त्वया ।
कामातुरैषा सुदती लक्ष्यतेऽप्यनुमानतः ॥ १८॥
भवत्येवंविधा कामं नायिका रूपगर्विता ।
भीषयित्वा वरारोहा त्वां वशे कर्तुमिच्छति ॥ १९॥
हावोऽयं मानिनीनां वै तं वेत्ति रसवित्तमः ।
वक्रोक्तिरेषा कामिन्याः प्रियं प्रति परायणम् ॥ २०॥
वेत्ति कोऽपि नरः कामं कामशास्त्रविचक्षणः ।
यदुक्तं नाम बाणैस्त्वा वधिष्ये रणमूर्धनि ॥ २१॥
हेतुगर्भमिदं वाक्यं ज्ञातव्यं हेतुवित्तमैः ।
बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः ॥ २२॥
पुष्पाञ्जलिमयाश्चान्ये व्यङ्ग्यानि वचनानि च ।
का शक्तिरन्यबाणानां प्रेरणे त्वयि पार्थिव ॥ २३॥
तादृशीनां न सा शक्तिर्ब्रह्मविष्णुहरादिषु ।
ययोक्तं नेत्रबाणैस्त्वां हनिष्ये मन्द पार्थिवम् ॥ २४॥
विपरीतं परिज्ञातं तेनारसविदा किल ।
पातयिष्यामि शय्यायां रणमय्यां पतिं तव ॥ २५॥
विपरीतरतिकीडाभाषणं ज्ञेयमेव तत् ।
करिष्ये विगतप्राणं यदुक्तं वचनं तया ॥ २६॥
वीर्यं प्राणा इति प्रोक्तं तद्विहीनं न चान्यथा ।
व्यङ्ग्याधिक्येन वाक्येन वरयत्युत्तमा नृप ॥ २७॥
तद्वै विचारतो ज्ञेयं रसग्रन्थविचक्षणैः ।
इति ज्ञात्वा महाराज कर्तव्यं रससंयुतम् ॥ २८॥
सामदानद्वयं तस्या नान्योपायोऽस्ति भूपते ।
रुष्टा वा गर्विता वापि वशगा मानिनी भवेत् ॥ २९॥
तादृशैर्मधुरैर्वाक्यैरानयिष्ये तवान्तिकम् ।
किं बहूक्तेन मे राजन् कर्तव्या वशवर्तिनी ॥ ३०॥