स्कन्ध 5, अध्याय 10: मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः, Verse 1
५.१० दशमोऽध्यायः ।
मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा ।
तमुवाच महाराज मेघगम्भीरया गिरा ॥ १॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.१० दशमोऽध्यायः ।
मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा ।
तमुवाच महाराज मेघगम्भीरया गिरा ॥ १॥
देव्युवाच ।
मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल ।
महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम् ॥ २॥
प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च ।
पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः ॥ ३॥
तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा ।
एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम ॥ ४॥
यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् ।
उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ ॥ ५॥
नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल ।
कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु ॥ ६॥
गच्छ तं महिषं पापं वद मद्वचनादिदम् ।
गच्छ पातालमधुना जीवितेच्छा यदस्ति ते ॥ ७॥
नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे ।
मद्बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम् ॥ ८॥
दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् ।
हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम् ॥ ९॥
तस्माद् गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् ।
पातालं तरसा मन्द यावद् बाणा न मेऽपतन् ॥ १०॥
युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर ।
वीरैर्महाबलैः सर्वैर्नयामि यमसादनम् ॥ ११॥
युगे युगे महामूढ हतास्त्वत्सदृशाः किल ।
असङ्ख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे ॥ १२॥
साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा ।
तद्युध्यस्व मया सार्धं समरे स्मरपीडितः ॥ १३॥
मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः ।
स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः ॥ १४॥
कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता ।
स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम् ॥ १५॥
यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् ।
हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते ॥ १६॥
व्यास उवाच ।
इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः ।
प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम् ॥ १७॥
देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता ।
क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल ॥ १८॥
एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः ।
महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम् ॥ १९॥
सैन्यं बहुविधं तस्य हस्त्यश्वरथसङ्कुलम् ।
पदातिगणसंविद्धं नानायुधविराजितम् ॥ २०॥
कः श्रमः करिराजस्य मालतीपुष्पमर्दने ।
मारणे तव वामोरु महिषस्य तथा रणे ॥ २१॥
यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् ।
शृङ्गारे तद्विरुद्धं हि रसभङ्गाद्बिभेम्यहम् ॥ २२॥
राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् ।
साममेव मया वाच्यं दानयुक्तं तथा वचः ॥ २३॥
नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् ।
मिथ्याभिमानचतुरां रूपयौवनगर्विताम् ॥ २४॥
स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् ।
तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया ॥ २५॥
राज्यं तव धनं सर्वं दासस्ते महिषः किल ।
कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम् ॥ २६॥
पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि ।
पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते ॥ २७॥
त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् ।
सुखं संसारजं सर्वं महिषस्य परिग्रहात् ॥ २८॥
देव्युवाच ।
शृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् ।
शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च ॥ २९॥
महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल ।
पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम् ॥ ३०॥