स्कन्ध 5, अध्याय 9: महिषमन्त्रिणा देवीवार्तावर्णनम्, Verse 1
५.९ नवमोऽध्यायः ।
महिषमन्त्रिणा देवीवार्तावर्णनम् ।
व्यास उवाच ।
देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा ।
ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ १॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.९ नवमोऽध्यायः ।
महिषमन्त्रिणा देवीवार्तावर्णनम् ।
व्यास उवाच ।
देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा ।
ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ १॥
क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे ।
निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम् ॥ २॥
ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् ।
कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥ ३॥
केयूरान्कङ्कणान्दिव्यान्नानारत्नविराजितान् ।
ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः ॥ ४॥
नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्नभूषितौ ।
ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः ॥ ५॥
तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः ।
अङ्गुलीयकरत्नानि तेजोवन्ति च सर्वशः ॥ ६॥
अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् ।
तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत ॥ ७॥
हिमवानथ सन्तुष्टो रत्नानि विविधानि च ।
ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥ ८॥
भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा ।
सिंहारूढा वरारोहा सर्वलक्षणसंयुता ॥ ९॥
विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् ।
सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम् ॥ १०॥
स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् ।
ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम् ॥ ११॥
वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् ।
घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम् ॥ १२॥
हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् ।
प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ॥ १३॥
इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् ।
मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम् ॥ १४॥
स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् ।
घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम् ॥ १५॥
ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् ।
येनान्तं सर्वभूतानामकरोत्काल आगते ॥ १६॥
ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् ।
ददावस्यै मुदा युक्तो वरुणः पाशमेव च ॥ १७॥
कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप ।
परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ ॥ १८॥
धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् ।
पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम् ॥ १९॥
गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् ।
अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥ २०॥
अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् ।
ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥ २१॥
सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः ।
तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम् ॥ २२॥
देवा ऊचुः ।
नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः ।
भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः ॥ २३॥
कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः ।
सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः ॥ २४॥
पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या ।
अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम् ॥ २५॥
मायायां या स्थिता ज्ञाता मायया न च तामजाम् ।
अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥ २६॥
कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् ।
जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥ २७॥
खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् ।
दुःखदं सर्वदेवानां नानारूपधरं शतम् ॥ २८॥
त्वमेका सर्वदेवानां शरणं भक्तवत्सले ।
पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ॥ २९॥
व्यास उवाच ।
एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा ।
तानुवाच महादेवी स्मितपूर्वं शुभं वचः ॥ ३०॥