स्कन्ध 5, अध्याय 8: देव्याः स्वरूपोद्भववर्णनम्, Verse 1
५.८ अष्टमोऽध्यायः ।
देव्याः स्वरूपोद्भववर्णनम् ।
व्यास उवाच ।
तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् ।
ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ १॥
Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.८ अष्टमोऽध्यायः ।
देव्याः स्वरूपोद्भववर्णनम् ।
व्यास उवाच ।
तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् ।
ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ १॥
सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् ।
हंससारसचक्राह्वैः कूजद्भिश्च विराजितम् ॥ २॥
चम्पकाशोककह्लारमन्दारबकुलावृतैः ।
मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः ॥ ३॥
कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः ।
भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम् ॥ ४॥
सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः ।
संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः ॥ ५॥
प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः ।
अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः ॥ ६॥
गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः ।
रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः ॥ ७॥
मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः ।
स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः ॥ ८॥
ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती ।
वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥ ९॥
गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् ।
द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥ १०॥
व्यास उवाच ।
विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ ।
सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥ ११॥
विजय उवाच ।
देवदेव महाराज रमाकान्त सुरारिहन् ।
समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो ॥ १२॥
ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः ।
स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥ १३॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः ।
निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥ १४॥
गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् ।
प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान् ॥ १५॥
प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् ।
तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥ १६॥
देवा ऊचुः ।
देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक ।
दयासिन्धो महाराज त्राहि नः शरणागतान् ॥ १७॥
विष्णुरुवाच ।
विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः ।
आसनेषु किमर्थं वै मिलिताः समुपागताः ॥ १८॥
चिन्तातुराः कथं जाता विषण्णा दीनमानसाः ।
ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम् ॥ १९॥
देवा ऊचुः ।
महिषेण महाराज पीडिताः पापकर्मणा ।
असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥ २०॥
यज्ञभागानसौ भुङ्क्ते ब्राह्मणैः प्रतिपादितान् ।
अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥ २१॥
वरदानेन धातुः स दुर्जयो मधुसूदन ।
तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ २२॥
समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद ।
कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥ २३॥
धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल ।
का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे ॥ २४॥
उमा मा वा शची विद्या का समर्थास्य घातने ।
महिषस्यातिदुष्टस्य वरदानबलादपि ॥ २५॥
विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् ।
कुरु कार्यं च देवानां भक्तवत्सल भूधर ॥ २६॥
व्यास उवाच ।
श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव ।
युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ ॥ २७॥
अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा ।
उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ॥ २८॥
हयारिं वरदृप्तञ्च मायाशतविशारदम् ।
हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः ॥ २९॥
प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः ।
उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा ॥ ३०॥