स्कन्ध 5, अध्याय 7: शङ्करशरणगमनवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ५.७ सप्तमोऽध्यायः ।
शङ्करशरणगमनवर्णनम् ।
व्यास उवाच ।
असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा ।
त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥ १॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ५.७ सप्तमोऽध्यायः ।
शङ्करशरणगमनवर्णनम् ।
व्यास उवाच ।
असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा ।
त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥ १॥
कृत्वा नादं महाघोरं विस्तार्य च महासटाम् ।
पपात सुरसेनायां त्रासयन्नखदर्शनैः ॥ २॥
गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् ।
जघान च भुजे विष्णुं नखाघातेन केसरी ॥ ३॥
वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् ।
हन्तुकामो हरिः काममवापाशु क्रुधान्वितः ॥ ४॥
यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् ।
तावत्सोऽतिबलः शृङ्गी शृङ्गाभ्यां न्यहनद्धरिम् ॥ ५॥
वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः ।
पलायनपरो वेगाज्जगाम भुवनं निजम् ॥ ६॥
गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः ।
अवध्यं तं परं मत्वा ययौ कैलासपर्वतम् ॥ ७॥
ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् ।
मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः ॥ ८॥
वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः ।
यमोऽपि दण्डमादाय यत्तः समरतत्परः ॥ ९॥
ततो यक्षाधिपः कामं बभूव रणतत्परः ।
पावकः शक्तिमादाय तत्राभूद्युद्धमानसः ॥ १०॥
नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ ।
वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ ॥ ११॥
एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् ।
विसृजन्बाणजालानि क्रूराहिसदृशानि च ॥ १२॥
कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा ।
देवदानवयोधानां निनादस्तुमुलोऽभवत् ॥ १३॥
ज्याघातश्च तलाघातो मेघनादसमोऽभवत् ।
सङ्ग्रामे सुमहाघोरे देवदानवसेनयोः ॥ १४॥
शृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः ।
जघान सुरसङ्घांश्च दानवो मदगर्वितः ॥ १५॥
खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च ।
स जघान रुषाविष्टो महिषः परमाद्भुतः ॥ १६॥
ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः ।
मघवा महिषं दृष्ट्वा पलायनपरोऽभवत् ॥ १७॥
सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ ।
यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः ॥ १८॥
महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः ।
ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता ॥ १९॥
तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् ।
स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे ॥ २०॥
तरसा देवसदनं गत्वा स महिषासुरः ।
जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः ॥ २१॥
इन्द्रासने तथा रम्ये दानवः समुपाविशत् ।
दानवान्स्थापयामास देवानां स्थानकेषु सः ॥ २२॥
एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् ।
अवापैन्द्रपदं कामं दानवो मदगर्वितः ॥ २३॥
निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः ।
एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे ॥ २४॥
श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः ।
प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम् ॥ २५॥
पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः ।
मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः ॥ २६॥
किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः ।
तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम् ॥ २७॥
देवा ऊचुः ।
धातः किमेतदखिलार्तिहराम्बुजन्म जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् ।
सम्पीडितान् रणजितानसुराधिपेन स्थानच्युतान् गिरिगुहाकृतसन्निवासान् ॥ २८॥
पुत्रान्पिता किमपराधशतैः समेता- न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् ।
यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता- न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य ॥ २९॥
अमरभुवनराज्यं तेन भुक्तं नितान्तं मखहविरपि योग्यं ब्राह्मणैराददाति ।
सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा जलनिधिनिधिभूतां गामसौ सेवते ताम् ॥ ३०॥