Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्

Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ५.६ षष्ठोऽध्यायः ।

महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।

व्यास उवाच ।

ताम्रेऽथ मूर्च्छिते दैत्ये महिषः क्रोधसंयुतः ।

समुद्यम्य गदां गुर्वीं देवानुपजगाम ह ॥ १॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 2

तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल ।

सर्वे बलिभुजः कामं बलहीनाः सदैव हि ॥ २॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 3

इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः ।

जघान गदया तूर्णं बाहुमूले महाभुजः ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 4

सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् ।

प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 5

हयारिरपि कोपेन खड्गमादाय सुप्रभम् ।

ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 6

बभूव च तयोर्युद्धं सर्वलोकभयावहम् ।

आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 7

चकाराशु तदा दैत्यो मायां मोहकरीं किल ।

शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 8

कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः ।

ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 9

मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् ।

बभूवातिभयोद्विग्नो मायां मोहकरीं किल ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 10

वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः ।

यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 11

पलायनपरा सर्वे बभूवुर्मोहिताः सुराः ।

ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 12

तत्राजग्मुश्च काजेशाः स्मृतमात्राः सुरोत्तमाः ।

हंसतार्क्ष्यवृषारूढास्त्रातुकामा वरायुधाः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 13

शौरिस्तां मोहिनीं दृष्ट्वा सुदर्शनमथोज्ज्वलम् ।

मुमोच तत्तेजसैव माया सा विलयं गता ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 14

वीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यन्तकारिणः ।

योद्धुकामः समादाय परिघं समुपाद्रवत् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 15

महिषाख्यो महावीरः सेनानीश्चिक्षुरस्तथा ।

उग्रास्यश्चोग्रवीर्यश्च दुद्रुवुर्युद्धकामुकाः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 16

असिलोमात्रिनेत्रश्च बाष्कलोऽन्धक एव च ।

एते चान्ये च बहवो युद्धकामा विनिर्ययुः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 17

सन्नद्धा धृतचापास्ते रथारूढा मदोद्धताः ।

परिवव्रुः सुरान्सर्वान्वृका इव सुवत्सकान् ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 18

बाणवृष्टिं ततश्चक्रुर्दानवा मदगर्विताः ।

सुराश्चापि तथा चक्रुः परस्परजिघांसवः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 19

अन्धको हरिमासाद्य पञ्चबाणाञ्छिलाशितान् ।

मुमोच विषसन्दिग्धान्कर्णाकृष्टान्महाबलान् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 20

वासुदेवोऽप्यसम्प्राप्तान्विशिखानाशुगैस्तदा ।

चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 21

तयोः परस्परं युद्धं बभूव हरिदैत्ययोः ।

बाणासिचक्रमुसलैर्गदाशक्तिपरश्वधैः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 22

महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् ।

पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 23

इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः ।

यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 24

असिलोमवरुणयोर्युद्धं परमदारुणम् ।

गरुडं गदया दैत्यो जघान हरिवाहनम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 25

स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत ।

शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 26

स्थिरं चकार देवेशो वैनतेयं महाबलम् ।

समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 27

अन्धकोपरि कोपेन हन्तुकामो जनार्दनः ।

दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 28

पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः ।

वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 29

चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् ।

त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 6: महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्, Verse 30

ननाद च महाराज देवान्सम्मोहयन्निव ।

दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः ॥ ३०॥