Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः

Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 1

५.५ पञ्चमोऽध्यायः ।

दैत्यसैन्यपराजयः ।

व्यास उवाच ।

इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् ।

युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै ॥ १॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 2

नोद्यमेन विना राज्यं न सुखं न च वै यशः ।

निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 3

यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् ।

उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 4

उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च ।

तथैनं निहनिष्यामि महिषं मुनिसत्तम ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 5

बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् ।

सहायस्तु हरिर्नूनं तथोमापतिरव्ययः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 6

रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् ।

स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 7

व्यास उवाच ।

इत्युक्तो देवराजेन वाचस्पतिरुवाच ह ।

सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 8

बृहस्पतिरुवाच ।

प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् ।

सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 9

न तेऽत्र दूषणं किञ्चिद्भवितव्ये शचीपते ।

सुखं वा यदि वा दुःखं विहितं च भविष्यति ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 10

न मया तत्परिज्ञातं भावि दुःखं सुखं तथा ।

यद्भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 11

शशिना मे हृता भार्या मित्रेणामित्रकर्शन ।

स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 12

बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप ।

क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 13

तस्मादुपायः कर्तव्यो बुद्धिमद्भिः सदा नरैः ।

कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 14

व्यास उवाच ।

तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः ।

ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत् ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 15

पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः ।

ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 16

अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः ।

योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 17

तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः ।

सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 18

ब्रह्मोवाच ।

गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् ।

शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 19

ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह ।

मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 20

बलाबलमविज्ञाय विवेकमपहाय च ।

साहसं तु प्रकुर्वाणो नरः पतनमृच्छति ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 21

व्यास उवाच ।

तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह ।

ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 22

तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् ।

प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 23

स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः ।

महिषात्तद्भयं चोग्रं वरदानमदोद्धतात् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 24

तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह ।

करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 25

व्यास उवाच ।

इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः ।

स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 26

ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः ।

शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 27

मयूरवाहनः स्कन्दो यमो महिषवाहनः ।

कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 28

तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् ।

तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 29

बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः ।

गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 5, अध्याय 5: दैत्यसैन्यपराजयः, Verse 30

मुद्गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः ।

अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम् ॥ ३०॥