स्कन्ध 5, अध्याय 3: भगवतीमाहाम्ये दैत्यसैन्याद्योगः, Verse 1
५.३ तृतीयोऽध्यायः ।
भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।
व्यास उवाच ।
एवं स महिषो नाम दानवो वरदर्पितः ।
प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः ॥ १॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३ तृतीयोऽध्यायः ।
भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।
व्यास उवाच ।
एवं स महिषो नाम दानवो वरदर्पितः ।
प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः ॥ १॥
पृथिवीं पालयामास सागरान्तां भुजार्जिताम् ।
एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम् ॥ २॥
सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः ।
धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः ॥ ३॥
असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः ।
त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः ॥ ४॥
एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा ।
आवृत्य संस्थिताः काममृद्धां सागरमेखलाम् ॥ ५॥
करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः ।
निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः ॥ ६॥
ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः ।
महिषस्य महाराज निखिले क्षितिमण्डले ॥ ७॥
एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः ।
स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः ॥ ८॥
प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् ।
स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट् ॥ ९॥
गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ ।
ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥ १०॥
मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् ।
सेवां वा कुरु देवेश महिषस्य महात्मनः ॥ ११॥
स त्वां संरक्षयेन्नूनं राजा शरणमागतम् ।
तस्मात्त्वं शरणं याहि महिषस्य शचीपते ॥ १२॥
नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन ।
पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम् ॥ १३॥
अहल्याजार विज्ञातं बलं ते सुरसङ्घप ।
युध्यस्व व्रज वा कामं यत्र ते रमते मनः ॥ १४॥
व्यास उवाच ।
तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः ।
उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा ॥ १५॥
न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः ।
चिकित्सां सङ्करिष्यामि रोगस्यास्य प्रभोस्तव ॥ १६॥
अतः परं करिष्यामि मूलस्यास्य निमूलनम् ।
गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम् ॥ १७॥
शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् ।
युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत ॥ १८॥
हयारे त्वद्बलं ज्ञातं तृणादस्त्वं जडाकृतिः ।
शृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम् ॥ १९॥
दर्पः शृङ्गबलात्तेऽस्ति विदितं कारणं मया ।
विषाणे ते परिच्छिद्य संहरिष्यामि तद् बलम् ॥ २०॥
यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः ।
कुशलस्त्वं तदाघाते न युद्धे महिषाधम ॥ २१॥
व्यास उवाच ।
इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः ।
जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह ॥ २२॥
दूत उवाच ।
राजन्देवाधिपः कामं न त्वां विगणयत्यसौ ।
मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः ॥ २३॥
यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् ।
प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः ॥ २४॥
प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना ।
इति नीतिर्महाराज जागर्ति शुभकारिणी ॥ २५॥
केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति ।
परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥
२६
यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः ।
तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः ॥ २७॥
यादृशानीह वाक्यानि तेनोक्तानि महीपते ।
तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित् ॥ २८॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः ।
भृशं कोपपरीतात्मा बभूव महिषासुरः ॥ २९॥
समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः ।
लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन् ॥ ३०॥