स्कन्ध 1, अध्याय 9: हरिकृतमधुकैटभवधवर्णनम्, Verse 1
१.९ नवमोऽध्यायः ।
हरिकृतमधुकैटभवधवर्णनम् ।
सूत उवाच ।
यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १॥
Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.
१.९ नवमोऽध्यायः ।
हरिकृतमधुकैटभवधवर्णनम् ।
सूत उवाच ।
यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १॥
निःसृत्य गगने तस्थौ तामसी शक्तिरुत्तमा ।
उदतिष्ठज्जगन्नाथो जृम्भमाणः पुनः पुनः ॥ २॥
तदापश्यत् स्थितं तत्र भयत्रस्तं प्रजापतिम् ।
उवाच च महातेजा मेघगम्भीरया गिरा ॥ ३॥
विष्णुरुवाच ।
किमागतोऽसि भगवंस्तपस्त्यक्त्वात्र पद्मज ।
कस्माच्चिन्तातुरोऽसि त्वं भयाकुलितमानसः ॥ ४॥
ब्रह्मोवाच ।
त्वत्कर्णमलजौ देव दैत्यौ च मधुकैटभौ ।
हन्तुं मां समुपायातौ घोररूपौ महाबलौ ॥ ५॥
भयात्तयोः समायातस्त्वत्समीपं जगत्पते ।
त्राहि मां वासुदेवाद्य भयत्रस्तं विचेतनम् ॥ ६॥
विष्णुरुवाच ।
तिष्ठाद्य निर्भयो जातस्तौ हनिष्याम्यहं किल ।
युद्धायाजग्मतुर्मूढौ मत्समीपं गतायुषौ ॥ ७॥
सूत उवाच ।
एवं वदति देवेशे दानवौ तौ महाबलौ ।
विचिन्वानावजं चोभौ सम्प्राप्तौ मदगर्वितौ ॥ ८॥
निराधारौ जले तत्र संस्थितौ विगतज्वरौ ।
तावूचतुर्मदोन्मत्तौ ब्रह्माणं मुनिसत्तमाः ॥ ९॥
पलायित्वा समायातः सन्निधावस्य किं ततः ।
युद्धं कुरु हनिष्यावः पश्यतोऽस्यैव सन्निधौ ॥ १०॥
पश्चादेनं हनिष्यावः सर्पभोगोपरिस्थितम् ।
त्वमद्य कुरु सङ्ग्रामं दासोऽस्मीति च वा वद ॥ ११॥
सूत उवाच ।
तच्छ्रुत्वा वचनं विष्णुस्तावुवाच जनार्दनः ।
कुरुतं समरं कामं मया दानवपुङ्गवौ ॥ १२॥
हरिष्यामि मदं चाहं युवयोर्मत्तयोः किल ।
आगच्छतं महाभागौ श्रद्धा चेद्वां महाबलौ ॥ १३॥
सूत उवाच ।
श्रुत्वा तद्वचनं चोभौ क्रोधव्याकुललोचनौ ।
निराधारौ जलस्थौ च युद्धोद्युक्तौ बभूवतुः ॥ १४॥
मधुश्च कुपितस्तत्र हरिणा सह संयुगम् ।
कर्तुं प्रचलितस्तूर्णं कैटभस्तु तथा स्थितः ॥ १५॥
बाहुयुद्धं तयोरासीन्मल्लयोरिव मत्तयोः ।
श्रान्ते मधौ कैटभस्तु सङ्ग्राममकरोत्तदा ॥ १६॥
पुनर्मधुः कैटभश्च युयुधाते पुनः पुनः ।
बाहुयुद्धेन रागान्धौ विष्णुना प्रभविष्णुना ॥ १७॥
प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरिक्षगा ।
न मम्लतुस्तदा तौ तु विष्णुस्तु ग्लानिमाप्तवान् ॥ १८॥
पञ्चवर्षसहस्राणि यदा जातानि युद्ध्यता ।
हरिणा चिन्तितं तत्र कारणं मरणे तयोः ॥ १९॥
पञ्चवर्षसहस्राणि मया युद्धं कृतं किल ।
न श्रान्तौ दानवौ घोरौ श्रान्तोऽहं चैतदद्भुतम् ॥ २०॥
क्व गतं मे बलं शौर्यं कस्माच्चेमावनामयौ ।
किमत्र कारणं चिन्त्यं विचार्य मनसा त्विह ॥ २१॥
इति चिन्तापरं दृष्ट्वा हरिं हर्षपरावुभौ ।
ऊचतुस्तौ मदोन्मत्तौ मेघमम्भीरनिःस्वनौ ॥ २२॥
तव नोचेद्बलं विष्णो यदि श्रान्तोऽसि युद्धतः ।
ब्रूहि दासोऽस्मि वां नूनं कृत्वा शिरसि चाञ्जलिम् ॥ २३॥
न चेद्युद्धं कुरुष्वाद्य समर्थोऽसि महामते ।
हत्वा त्वां निहनिष्यावः पुरुषं च चतुर्मुखम् ॥ २४॥
सूत उवाच ।
श्रुत्वा तद्भाषितं विष्णुस्तयोस्तस्मिन्महोदधौ ।
उवाच वचनं श्लक्ष्णं सामपूर्वं महामनाः ॥ २५॥
हरिरुवाच ।
श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा ।
प्रहरन्ति न वीरास्ते धर्म एष सनातनः ॥ २६॥
पञ्चवर्षसहस्राणि कृतं युद्धं मया त्विह ।
एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा ॥ २७॥
कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः ।
तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः ॥ २८॥
तिष्ठतं हि युवां तावद्बलवन्तौ मदोत्कटौ ।
विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः ॥ २९॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमौ ।
संस्थितौ दूरतस्तत्र सङ्ग्रामे कृतनिश्चयौ ॥ ३०॥