स्कन्ध 5, अध्याय 1: योगमायाप्रभाववर्णनम्, Verse 1
५ श्रीमद्देवीभागवतमहापुराणे पञ्चमः स्कन्धः ५.१ प्रथमोऽध्यायः ।
योगमायाप्रभाववर्णनम् ।
ऋषय ऊचुः ।
भवता कथितं सूत महदाख्यानमुत्तमम् ।
कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ १॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
५ श्रीमद्देवीभागवतमहापुराणे पञ्चमः स्कन्धः ५.१ प्रथमोऽध्यायः ।
योगमायाप्रभाववर्णनम् ।
ऋषय ऊचुः ।
भवता कथितं सूत महदाख्यानमुत्तमम् ।
कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ १॥
सन्देहोऽत्र महाभाग वासुदेवकथानके ।
जायते नः प्रोच्यमाने विस्तरेण महामते ॥ २॥
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् ।
विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥ ३॥
वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः ।
जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया ॥ ४॥
ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ ।
न्यूनता वा किमस्त्वस्य तदेवं संशयो मम ॥ ५॥
सूत उवाच ।
शृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् ।
प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम् ॥ ६॥
वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा ।
पुनः पप्रच्छ मेधावी सन्देहं परमं गतः ॥ ७॥
जनमेजय उवाच ।
सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् ।
तथापि मनसो वृत्तिः संशयं न विमुञ्चति ॥ ८॥
कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् ।
विस्मयोऽयं महाभाग देवदेवेन विष्णुना ॥ ९॥
यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः ।
स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः ॥ १०॥
जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः ।
संहर्तुमपि कस्मात्स दारुणं तप आचरत् ॥ ११॥
व्यास उवाच ।
सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः ।
क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः ॥ १२॥
तथापि मानुषं देहमाश्रितः परमेश्वरः ।
कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान् ॥ १३॥
वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् ।
ब्राह्मणानां तथा सेवा देवताराधनं तथा ॥ १४॥
शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः ।
दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम् ॥ १५॥
कामः क्रोधस्तथा लोभः काले काले भवन्ति हि ।
तथा गुणमये देहे निर्गुणत्वं कथं भवेत् ॥ १६॥
सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् ।
निधनं यादवानां तु कृष्णदेहस्य मोचनम् ॥ १७॥
हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप ।
अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च ॥ १८॥
अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः ।
एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम् ॥ १९॥
विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा ।
अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने ॥ २०॥
स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् ।
सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः ॥ २१॥
तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते ।
अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ २२॥
मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी ।
उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः ॥ २३॥
अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता ।
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥ २४॥
विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः ।
तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने ॥ २५॥
इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्बभौ ।
मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः ॥ २६॥
सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा ।
देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे ॥ २७॥
अवतारा हरेरेवं प्रभवन्ति युगे युगे ।
योगमायाप्रभावेण नात्र कार्या विचारणा ॥ २८॥
या नेत्रपक्ष्मपरिसञ्चलनेन सम्य- ग्विश्वं सृजत्यवति हन्ति निगूढभावा ।
सैषा करोति सततं द्रुहिणाच्युतेशान् नानावतारकलने परिभूयमानान् ॥ २९॥
सूतीगृहाद्व्रजनमप्यनया नियुक्तं सङ्गोपितश्च भवने पशुपालराज्ञः ।
सम्प्रापितश्च मधुरां विनियोजितश्च श्रीद्वारकाप्रणयने ननु भीतचित्तः ॥ ३०॥