स्कन्ध 4, अध्याय 25: पराशक्तेः सर्वज्ञत्वकथनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.२५ पञ्चविंशोऽध्यायः ।
पराशक्तेः सर्वज्ञत्वकथनम् ।
राजोवाच ।
सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव ।
वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च ॥ १॥