स्कन्ध 4, अध्याय 23: कंसं प्रति योगमायावाक्यम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.२३ त्रयोविंशोऽध्यायः ।
कंसं प्रति योगमायावाक्यम् ।
व्यास उवाच ।
हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना ।
सप्तमे पतिते गर्भे वचनान्नारदस्य च ॥ १॥