स्कन्ध 4, अध्याय 22: देवदानवानामंशावतरणवर्णनम्, Verse 1
४.२२ द्वाविंशोऽध्यायः ।
देवदानवानामंशावतरणवर्णनम् ।
जनमेजय उवाच ।
किं कृतं पातकं तेन बालकेन पितामह ।
यज्जातमात्रो निहतस्तथा तेन दुरात्मना ॥ १॥
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
४.२२ द्वाविंशोऽध्यायः ।
देवदानवानामंशावतरणवर्णनम् ।
जनमेजय उवाच ।
किं कृतं पातकं तेन बालकेन पितामह ।
यज्जातमात्रो निहतस्तथा तेन दुरात्मना ॥ १॥
नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः ।
कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः ॥ २॥
कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः ।
स कथं प्रेरयामास मुनिः कंसं खलं तदा ॥ ३॥
संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् ।
येन कर्मविपाकेन बालको निधनं गतः ॥ ४॥
व्यास उवाच ।
नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः ।
देवकार्यार्थमागत्य सर्वमेतच्चकार ह ॥ ५॥
न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन ।
सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः ॥ ६॥
एवं षड् बालकास्तेन जाता जाता निपातिताः ।
षड् गर्भाः शापयोगेन सम्भूय मरणं गताः ॥ ७॥
शृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् ।
स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः ॥ ८॥
ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः ।
ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ ९॥
शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः ।
कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते ॥ १०॥
अवतारे परे ते तु हिरण्यकशिपोः सुताः ।
जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप ॥ ११॥
तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः ।
तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरान्ददौ ॥ १२॥
ब्रह्मोवाच ।
शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः ।
तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम् ॥ १३॥
व्यास उवाच ।
ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः ।
ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः ॥ १४॥
गर्भा ऊचुः ।
पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् ।
अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः ॥ १५॥
गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह ।
व्यास उवाच ।
तानुवाच ततो ब्रह्मा सर्वमेतद्भविष्यति ॥ १६॥
गच्छन्तु वो महाभागाः सत्यमेव न संशयः ।
दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन् ॥ १७॥
हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह ।
यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः ॥ १८॥
वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् ।
युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम् ॥ १९॥
यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि ।
पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान् ॥ २०॥
ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः ।
पिता वः कालनेमिस्तु तत्र कंसो भविष्यति ॥ २१॥
स एव जातमात्रान्वो वधिष्यति सुदारुणः ।
व्यास उवाच ।
एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः ॥ २२॥
जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः ।
शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः ॥ २३॥
विस्रंसितश्च गर्भोऽसौ योगेन योगमायया ।
नीतश्च रोहिणीगर्भे कृत्वा सङ्कर्षणं बलात् ॥ २४॥
पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा ।
कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम् ॥ २५॥
मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् ।
अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः ॥ २६॥
उवास देवकार्यार्थं भारावतरणाय च ।
राजोवाच ।
वसुदेवः कश्यपांशः शेषांशश्च तदाभवत् ॥ २७॥
हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम ।
अन्ये च येंऽशा देवानां तत्र जातास्तु तान्वद ॥ २८॥
भाराववतारणार्थं वै क्षितेः प्रार्थनयानघ ।
व्यास उवाच ।
सुराणामसुराणां च ये येंऽशा भुवि विश्रुताः ॥ २९॥
तानहं सम्प्रवक्ष्यामि सङ्क्षेपेण शृणुष्व तान् ।
वसुदेवः कश्यपांशो देवकी च तथादितिः ॥ ३०॥