स्कन्ध 4, अध्याय 19: देवान् प्रति देवीवाक्यवर्णनम्, Verse 1
४.१९ एकोनविंशोऽध्यायः ।
देवान् प्रति देवीवाक्यवर्णनम् ।
व्यास उवाच ।
इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् ।
यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः ॥ १॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
४.१९ एकोनविंशोऽध्यायः ।
देवान् प्रति देवीवाक्यवर्णनम् ।
व्यास उवाच ।
इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् ।
यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः ॥ १॥
वयं मायावृताः कामं न स्मरामो जगद्गुरुम् ।
परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम् ॥ २॥
अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः ।
न जानीमो वयं धातः परं वस्तु सनातनम् ॥ ३॥
यन्मायामोहितश्चाहं सदा वर्ते परात्मनः ।
परवान्दारुपाञ्चाली मायिकस्य यथा वशे ॥ ४॥
भवतापि तथा दृष्टा विभूतिस्तस्य चाद्भुता ।
कल्पादौ भवयुक्तेन मयापि च सुधार्णवे ॥ ५॥
मणिद्वीपेऽथ मन्दारविटपे रासमण्डले ।
समाजे तत्र सा दृष्टा श्रुता न वचसापि च ॥ ६॥
तस्मात्तां परमां शक्तिं स्मरन्त्वद्य सुराः शिवाम् ।
सर्वकामप्रदां मायामाद्यां शक्तिं परात्मनः ॥ ७॥
व्यास उवाच ।
इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम् ।
सस्मरुर्मनसा देवीं योगमायां सनातनीम् ॥ ८॥
स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ ।
पाशाङ्कुशवराभीतिधरा देवी जपारुणा ।
दृष्ट्वा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शनाम् ॥ ९॥
देवा ऊचुः ।
ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः ।
तथा जगद्यदेतस्या निर्गतं तां नता वयम् ॥ १०॥
यन्मायाशक्तिसङ्कॢप्तं जगत्सर्वं चराचरम् ।
तां चितं भुवनाधीशां स्मरामः करुणार्णवाम् ॥ ११॥
यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् ।
संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात् ॥ १२॥
महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥ १३॥
मातर्नताः स्म भुवनार्तिहरे प्रसीद शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे ।
भारं हरस्व विनिहत्य सुरारिवर्गं मह्या महेश्वरि सतां कुरु शं भवानि ॥ १४॥
यद्यम्बुजाक्षि दयसे न सुरान्कदाचित् किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् ।
एतत्त्वयैव गदितं ननु यक्षरूपं धृत्वा तृणं दह हुताश पदाभिलाषैः ॥ १५॥
कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी बार्हद्रथो बकबकीखरशाल्वमुख्याः ।
येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं हत्वा हरस्व जगतो भरमाशु मातः ॥ १६॥
ये विष्णुना न निहताः किल शङ्करेण ये वा विगृह्य जलजाक्षि पुरन्दरेण ।
ते ते मुखं सुखकरं सुसमीक्षमाणाः सङ्ख्ये शरैर्विनिहता निजलीलया ते ॥ १७॥
शक्तिं विना हरिहरप्रमुखाः सुराश्च ॥
नैवेश्वरा विचलितुं तव देवदेवि ।
किं धारणाविरहितः प्रभुरप्यनन्तो धर्तुं धराञ्च रजनीशकलावतंसे ॥ १८॥
इन्द्र उवाच ।
वाचा विना विधिरलं भवतीह विश्वं कर्तुं हरिः किमु रमारहितोऽथ पातुम् ।
संहर्तुमीश उमयोज्झित ईश्वरः किं ते ताभिरेव सहिताः प्रभवः प्रजेशाः ॥ १९॥
विष्णुरुवाच ।
कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं नापीश्वरस्तव कलारहितस्त्रिलोक्याः ।
कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं त्वं वै समस्तविभवेश्वरि भासि नूनम् ॥ २०॥
व्यास उवाच ।
एवं स्तुता तदा देवी तानाह विबुधेश्वरान् ।
किं तत्कार्यं वदन्त्वद्य करोमि विगतज्वराः ॥ २१॥
असाध्यमपि लोकेऽस्मिंस्तत्करोमि सुरेप्सितम् ।
शंसन्तु भवतां दुःखं धरायाश्च सुरोत्तमाः ॥ २२॥
देवा ऊचुः ।
वसुधेयं भराक्रान्ता सम्प्राप्ता विबुधान्प्रति ।
रुदती वेपमाना च पीडिता दुष्टभूभुजैः ॥ २३॥
भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि ।
देवानामीष्मित कार्यमेतदेवाधुना शिवे ॥ २४॥
घातितस्तु पुरा मातस्त्वया महिषरूपभृत् ।
दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः ॥ २५॥
तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः ।
चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः ॥ २६॥
दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् ।
अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः ॥ २७॥
तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् ।
(भारं हर धरायाश्च दुर्धरं दुष्टभूभुजां ।
) ॥
व्यास उवाच ।
इत्युक्ता सा तदा देवी देवानाहाम्बिका शिवा ॥ २८॥