स्कन्ध 4, अध्याय 18: ब्रह्माणं प्रति विष्णुवाक्यम्, Verse 1
४.१८ अष्टादशोऽध्यायः ।
ब्रह्माणं प्रति विष्णुवाक्यम् ।
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् ।
अवतारकारणं चैव देव्याश्चरितमद्भुतम् ॥ १॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
४.१८ अष्टादशोऽध्यायः ।
ब्रह्माणं प्रति विष्णुवाक्यम् ।
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् ।
अवतारकारणं चैव देव्याश्चरितमद्भुतम् ॥ १॥
धरैकदा भराक्रान्ता रुदती चातिकर्शिता ।
गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम् ॥ २॥
पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ ।
केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे ॥ ३॥
तच्छ्रुत्वेला तदोवाच शृणु देवेश मेऽखिलम् ।
दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद ॥ ४॥
जरासन्धो महापापी मागधेषु पतिर्मम ।
शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान् ॥ ५॥
रुक्मी च बलवान्कंसो नरकश्च महाबलः ।
शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ ॥ ६॥
सर्वे धर्मविहीनाश्च परस्परविरोधिनः ।
पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः ॥ ७॥
तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो ।
किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता ॥ ८॥
पीडिताहं वराहेण विष्णुना प्रभविष्णुना ।
शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता ॥ ९॥
यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै ।
हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे ॥ १०॥
तदा सूकररूपेण विष्णुना निहतोऽप्यसौ ।
उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता ॥ ११॥
नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी ।
न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम् ॥ १२॥
अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः ।
तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम् ॥ १३॥
तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च ।
पारदो भव भारं मे हर पादौ नमामि ते ॥ १४॥
इन्द्र उवाच ।
इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज ।
अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति ॥ १५॥
तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा ।
शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः ॥ १६॥
सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः ।
महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम् ॥ १७॥
कस्माद्रुदसि कल्याणि किं ते दुःखं वदाधुना ।
पीडितासि च केन त्वं पापाचारेण भूर्वद ॥ १८॥
धरोवाच ।
कलिरायाति दुष्टोऽयं बिभेमि तद्भयादहम् ।
पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते ॥ १९॥
राजानश्च दुराचाराः परस्परविरोधिनः ।
चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः ॥ २०॥
तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह ।
पीडितास्मि महाराज सैन्यभारेण भूभृताम् ॥ २१॥
ब्रह्योवाच ।
नाहं शक्तस्तथा देवि भारावतरणे तव ।
गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः ॥ २२॥
स ते भारापनोदं वै करिष्यति जनार्दनः ।
पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च ॥ २३॥
तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः ।
व्यास उवाच ।
इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम् ॥ २४॥
जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः ।
तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः ॥ २५॥
ब्रह्मोवाच ।
सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् ।
त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः ॥ २६॥
भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो ।
अमरत्वं त्वया दत्तमस्माकं च रमापते ॥ २७॥
एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये ।
त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः ॥ २८॥
व्यास उवाच ।
इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः ।
दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः ॥ २९॥
पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः ।
ततस्त्वागमने तेषां कारणञ्च सविस्तरम् ॥ ३०॥