स्कन्ध 1, अध्याय 8: आराध्यनिर्णयवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.८ अष्टमोऽध्यायः ।
आराध्यनिर्णयवर्णनम् ।
ऋषय ऊचुः ।
सन्देहोऽत्र महाभाग कथायां तु महाद्भुतः ।
वेदशास्त्रपुराणैश्च निश्चितं तु सदा बुधैः ॥ १॥
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.८ अष्टमोऽध्यायः ।
आराध्यनिर्णयवर्णनम् ।
ऋषय ऊचुः ।
सन्देहोऽत्र महाभाग कथायां तु महाद्भुतः ।
वेदशास्त्रपुराणैश्च निश्चितं तु सदा बुधैः ॥ १॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवाः सनातनाः ।
नातः परतरं किञ्चिद्ब्रह्माण्डेऽस्मिन्महामते ॥ २॥
ब्रह्मा सृजति लोकान्वै विष्णुः पात्यखिलं जगत् ।
रुद्रः संहरते काले त्रय एतेऽत्र कारणम् ॥ ३॥
एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
रजःसत्त्वतमोभिश्च संयुताः कार्यकारकाः ॥ ४॥
तेषां मध्ये हरिः श्रेष्ठो माधवः पुरुषोत्तमः ।
आदिदेवो जगन्नाथः समर्थः सर्वकर्मसु ॥ ५॥
नान्यः कोऽपि समर्थोऽस्ति विष्णोरतुलतेजसः ।
स कथं स्वापितः स्वामी विवशो योगमायया ॥ ६॥
क्व गतं तस्य विज्ञानं जीवतश्चेष्टितं कुतः ।
सन्देहोऽयं महाभाग कथयस्व यथाशुभम् ॥ ७॥
का सा शक्तिः पुरा प्रोक्ता यया विष्णुजितः प्रभुः ।
कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत ॥ ८॥
यस्तु सर्वेश्वरो विष्णुर्वासुदेवो जगद्गुरुः ।
परमात्मा परानन्दः सच्चिदानन्दविग्रहः ॥ ९॥
सर्वकृत्सर्वभृत्स्रष्टा विरजः सर्वगः शुचिः ।
स कथं निद्रया नीतः परतन्त्रः परात्परः ॥ १०॥
एतदाश्चर्यभूतो हि सन्देहो नः परन्तप ।
छिन्धि ज्ञानासिना सूत व्यासशिष्य महामते ॥ ११॥
सूत उवाच ।
कः सन्देहं भिनत्त्येनं त्रैलोक्ये सचराचरे ।
मुह्यन्ति मुनयः कामं ब्रह्मपुत्राः सनातनाः ॥ १२॥
नारदः कपिलश्चैव प्रश्नेऽस्मिन्मुनिसत्तमाः ।
किं ब्रवीमि महाभागा दुर्घटेऽस्मिन्विमर्शने ॥ १३॥
देवेषु विष्णुः कथितः सर्वगः सर्वपालकः ।
यतो विराडिदं सर्वमुत्पन्नं सचराचरम् ॥ १४॥
ते सर्वे समुपासन्ते नत्वा देवं परात्परम् ।
नारायणं हृषीकेशं वासुदेवं जनार्दनम् ॥ १५॥
तथा केचिन्महादेवं शङ्करं शशिशेखरम् ।
त्रिनेत्रं पञ्चवक्त्रं च शूलपाणिं वृषध्वजम् ॥ १६॥
तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम् ।
कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम् ॥ १७॥
कैलासवासनिरतं सर्वशक्तिसमन्वितम् ।
भूतवृन्दयुतं देवं दक्षयज्ञविघातकम् ॥ १८॥
तथा सूर्यं वेदविदः सायम्प्रातर्दिने दिने ।
मध्याह्ने तु महाभागाः स्तुवन्ति विविधैः स्तवैः ॥ १९॥
तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् ।
परमात्मेति विख्यातं नाम तस्य महात्मनः ॥ २०॥
अग्निः सर्वत्र वेदेषु संस्तुतो वेदवित्तमैः ।
इन्द्रश्चापि त्रिलोकेशो वरुणश्च तथापरः ॥ २१॥
यथा गङ्गा प्रवाहैश्च बहुभिः परिवर्तते ।
तथैव सर्वदेवेषु विष्णुः प्रोक्तो महर्षिभिः ॥ २२॥
त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः ।
प्रत्यक्षं चानुमानं च शाब्दं चैव तृतीयकम् ॥ २३॥
चत्वार्येवेतरे प्राहुरुपमानयुतानि च ।
अर्थापत्तियुतान्यन्ये पञ्च प्राहुर्महाधियः ॥ २४॥
सप्त पौराणिकाश्चैव प्रवदन्ति मनीषिणः ।
एतैः प्रमाणैर्दुर्ज्ञेयं यद्ब्रह्म परमं च तत् ॥ २५॥
वितर्कश्चात्र कर्तव्यो बुद्ध्या चैवागमेन च ।
निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः ॥ २६॥
प्रत्यक्षतस्तु विज्ञानं चिन्त्यं मतिमता सदा ।
दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा ॥ २७॥
विद्वांसोऽपि वदन्त्येवं पुराणैः परिगीयते ।
द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता ॥ २८॥
हरे संहारशक्तिश्च सूर्ये शक्तिः प्रकाशिका ।
धराधरणशक्तिश्च शेषे कूर्मे तथैव च ॥ २९॥
साद्या शक्तिः परिणता सर्वस्मिन्या प्रतिष्ठिता ।
दाहशक्तिस्तथा वह्नौ समीरे प्रेरणात्मिका ॥ ३०॥