स्कन्ध 4, अध्याय 17: नारायणवरदानम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.१७ सप्तदशोऽध्यायः ।
नारायणवरदानम् ।
जनमेजय उवाच ।
वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे ।
एकं नारायणं शान्तं कामयाना स्मरातुराः ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.१७ सप्तदशोऽध्यायः ।
नारायणवरदानम् ।
जनमेजय उवाच ।
वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे ।
एकं नारायणं शान्तं कामयाना स्मरातुराः ॥ १॥
शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः ।
निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप ॥ २॥
किं कृतं मुनिना तेन व्यसने समुपस्थिते ।
ताभिः सङ्कल्पितेनाथ कामार्थाभिर्भृशं मुने ॥ ३॥
शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः ।
याचितेन विवाहार्थं किं कृतं तेन जिष्णुना ॥ ४॥
इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् ।
नारायणस्य मे ब्रूहि विस्तरेण पितामह ॥ ५॥
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः ।
धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते ॥ ६॥
शप्तुकामस्तु सन्दृष्टो नरेणाथ यदा हरिः ।
वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा ॥ ७॥
शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः ।
स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः ॥ ८॥
अस्मिञ्जन्मनि चार्वङ्ग्यः कृतसङ्कल्पवानहम् ।
आवाभ्याञ्च न कर्तव्यः सर्वथा दारसङ्ग्रहः ॥ ९॥
तस्माद् गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि ।
धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै ॥ १०॥
शृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः ।
कथं करोमि सम्बन्धं तदभावे सुलोचनाः ॥ ११॥
कारणेन विना कार्यं न भवेदिति निश्चयः ।
कविभिः कथितं शास्त्रे स्थायीभावो रसः किल ॥ १२॥
धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले ।
प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम् ॥ १३॥
भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम ।
भविष्यामि महाभागाः पतिरप्यन्यजन्मनि ॥ १४॥
अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले ।
देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा ॥ १५॥
तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् ।
भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ ॥ १६॥
इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् ।
व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः ॥ १७॥
एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः ।
शक्राय कथयामासुः कारणं सकलं पुनः ॥ १८॥
आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् ।
तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः ॥ १९॥
इन्द्र उवाच ।
अहो धैर्यं मुनेः कामं तथैव च तपोबलम् ।
येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः ॥ २०॥
इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः ।
नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत् ॥ २१॥
इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् ।
नारायणस्य सकलं नरस्य च महामुनेः ॥ २२॥
तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च ।
जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह ॥ २३॥
राजोवाच ।
कृष्णावतारचरितं विस्तरेण वदस्व मे ।
सन्देहो मम चित्तेऽस्ति तं निवारय मानद ॥ २४॥
ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ ।
देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने ॥ २५॥
कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् ।
ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत् ॥ २६॥
जातोऽसौ मथुरायां तु गोकुले स कथं गतः ।
कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम् ॥ २७॥
पित्रादिसेवितं देशं समृद्धं पावनं किल ।
त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः ॥ २८॥
कुलञ्च द्विजशापेन कथमुत्सादितं हरेः ।
भारावतारणं कृत्वा वासुदेवः सनातनः ॥ २९॥
देहं मुमोच तरसा जगाम च दिवं हरिः ।
पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी ॥ ३०॥