Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.१५ पञ्चदशोऽध्यायः ।

देवीकथनेन दानवानां रसातलं प्रति गमनम् ।

व्यास उवाच ।

इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः ।

प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 2

ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह ।

कृतेऽपि युद्धे न जयो भविष्यति कदाचन ॥ २॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 3

तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः ।

सङ्ग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 4

निरुद्यमानां दैवं हि प्रधानमसुराधिप ।

केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 5

तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् ।

भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 6

इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा ।

सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 7

तेऽपि तत्रासुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् ।

सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 8

सङ्ग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् ।

पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 9

वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः ।

जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 10

तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् ।

सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 11

इन्द्र उवाच ।

जय देवि महामाये शूलधारिणि चाम्बिके ।

शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 12

नमस्ते भुवनेशानि शक्तिदर्शननायिके ।

दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 13

महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि ।

प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 14

पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि ।

आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 15

मातः प्रसीद सुमुखी भव हीनसत्त्वां- स्त्रायस्व नो जननि दैत्यपराजितान् वै ।

त्वं देवि नः शरणदा भुवने प्रमाणा शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 16

ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति दुःखान्विताविगतशोकभयास्तथान्ये ।

मोक्षार्थिनो विगतमानविमुक्तसङ्गाः संसारवारिधिजलं प्रतरन्ति सन्तः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 17

त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमुदितार्तिहरप्रतापा ।

संहर्तुमेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 18

ब्रह्मा हरश्च हरिदश्वरथो हरिश्च इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च ।

ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्च ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 19

धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः ।

ये भक्तिभावरहिता न कदापि दुःखा- ॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 20

म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 21

ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः ।

तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 22

ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः ।

सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 23

व्यास उवाच ।

एवं स्तुता मघवता देवी विश्वेश्वरी तदा ।

प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 24

शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना ।

रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 25

तानुवाच सुरान्देवी प्रसन्नवदना गिरा ।

भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 26

इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी ।

जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 27

प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् ।

ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 28

देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल ।

महिषान्तकरी नूनं चण्डमुण्डविनाशिनी ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 29

निहनिष्यति नः सर्वानम्बिका नात्र संशयः ।

वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 15: देवीकथनेन दानवानां रसातलं प्रति गमनम्, Verse 30

एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह ।

योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः ॥ २९॥