Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.१३ त्रयोदशोऽध्यायः ।

शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।

राजोवाच ।

किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता ।

छलेनैव हि दैत्यानां पौरोहित्येन धीमता ॥ १॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 2

गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा ।

सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 3

धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् ।

कथितं मुनिभिर्येन परमात्मापि लभ्यते ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 4

वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति ।

कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 5

आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न ।

तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 6

शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् ।

छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 7

देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः ।

तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 8

अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि ।

तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 9

क्व स्थितिस्तस्य धर्मस्य सन्देहोऽयं ममात्मनः ।

का गतिः सर्वजन्तूनां मिथ्याभूते जगत्त्रये ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 10

हरिर्ब्रह्मा शचीकान्तस्तथान्ये सुरसत्तमाः ।

सर्वे छलविधौ दक्षा मनुष्याणाञ्च का कथा ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 11

कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः ।

छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 12

वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा ।

एते पापरताः कात्र गतिर्धर्मस्य मानद ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 13

इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः ।

आर्यत्वं भुवनेष्वेषु स्थितं कुत्र मुने वद ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 14

वचनं कस्य मन्तव्यमुपदेशधियानघ ।

सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तदा ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 15

व्यास उवाच ।

किं विष्णुः किं शिवो ब्रह्मा मघवा किं बृहस्पतिः ।

देहवान् प्रभवत्येव विकारैः संयुतस्तदा ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 16

रागी विष्णुः शिवो रागी ब्रह्मापि रागसंयुतः ।

(रागवान्किमकृत्यं वै न करोति नराधिप) ॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 17

रागवानपि चातुर्याद्विदेह इव लक्ष्यते ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 18

सम्प्राप्ते सङ्कटे सोऽपि गुणैः सम्बाध्यते किल ।

कारणाद्रहितं कार्यं कथं भवितुमर्हति ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 19

ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम् ।

पञ्चविंशत्समुद्भूता देहास्तेषां न चान्यथा ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 20

काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप ।

परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 21

विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते ।

कामः क्रोधस्तथा लोभद्रोहाहङ्कारमत्सराः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 22

देहवान्कः परित्यक्तुमीशो भवति तान्पुनः ।

संसारोऽयं महाराज सदैवैवंविधः स्मृतः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 23

नान्यथा प्रभवत्येव शुभाशुभमयः किल ।

कदाचिद्भगवान्विष्णुस्तपश्चरति दारुणम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 24

कदाचिद्विविधान्यज्ञान्वितनोति सुराधिपः ।

कदाचित्तु रमारङ्गरञ्जितः परमेश्वरः ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 25

रमते किल वैकुण्ठे तद्वशस्तरुणो विभुः ।

कदाचिद्दानवैः सार्धं युद्धं परमदारुणम् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 26

करोति करुणासिन्धुस्तद्बाणापीडितो भृशम् ।

कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 27

सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः ।

शेषे शेते कदाचिद्वै योगनिद्रासमावृतः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 28

काले जागर्ति विश्वात्मा स्वभावप्रतिबोधितः ।

शर्वो ब्रह्मा हरिश्चेति इन्द्राद्या ये सुरास्तथा ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 29

मुनयश्च विनिर्माणैः स्वायुषो विचरन्ति हि ।

निशावसाने सञ्जाते जगत्स्थावरजङ्गमम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 13: शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्, Verse 30

म्रियते नात्र सन्देहो नृप किञ्चित्कदापि च ।

स्वायुषोऽन्ते पद्यजाद्याः क्षयमृच्छन्ति पार्थिव ॥ २९॥