स्कन्ध 4, अध्याय 12: जयन्त्या शुक्रसहवासवर्णनम्, Verse 1
४.१२ द्वादशोऽध्यायः ।
जयन्त्या शुक्रसहवासवर्णनम् ।
व्यास उवाच ।
तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः ।
वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम् ॥ १॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
४.१२ द्वादशोऽध्यायः ।
जयन्त्या शुक्रसहवासवर्णनम् ।
व्यास उवाच ।
तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः ।
वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम् ॥ १॥
भृगुरुवाच ।
अकृत्यं ते कृतं विष्णो जानन्पापं महामते ।
वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः ॥ २॥
आख्यातस्त्वं सत्त्वगुणः स्मृतो ब्रह्मा च राजसः ।
तथासौ तामसः शम्भुर्विपरीतं कथं स्मृतम् ॥ ३॥
तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् ।
अवध्या स्त्री त्वया विष्णो हता कस्मान्निरागसा ॥ ४॥
शपामि त्वां दुराचारं किमन्यत्प्रकरोमि ते ।
विधुरोऽहं कृतः पाप त्वयाहं शक्रकारणात् ॥ ५॥
न शपेऽहं तथा शक्रं शपे त्वां मधुसूदन ।
सदा छलपरोऽसि त्वं कीटयोनिर्दुराशयः ॥ ६॥
ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल ।
तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन ॥ ७॥
अवतारा मृत्युलोके सन्तु मच्छापसम्भवाः ।
प्रायो गर्भभवं दुःखं भुङ्क्ष्व पापाज्जनार्दन ॥ ८॥
व्यास उवाच ।
ततस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः ।
लोकस्य च हितार्थाय जायते मानुषेष्विह ॥ ९॥
राजोवाच ।
भूगुभार्या हता तत्र चक्रेणामिततेजसा ।
गार्हस्थ्यञ्च पुनस्तस्य कथं जातं महात्मनः ॥ १०॥
व्यास उवाच ।
इति शप्त्वा हरिं रोषात्तदादाय शिरस्त्वरन् ।
काये संयोज्य तरसा भृगुः प्रोवाच कार्यवित् ॥ ११॥
अद्य त्वां विष्णुना देवि हतां सञ्जीवयाम्यहम् ।
यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा ॥ १२॥
तेन सत्येन जीवेत यदि सत्यं ब्रवीम्यहम् ।
पश्यन्तु देवताः सर्वा मम तेजोबलं महत् ॥ १३॥
अद्भिस्त्वां प्रोक्ष्य शीताभिर्जीवयामि तपोबलात् ।
सत्यं शौचं तथा वेदा यदि मे तपसो बलम् ॥ १४॥
व्यास उवाच ।
अद्भिः सम्प्रोक्षिता देवी सद्यः सञ्जीविता तदा ।
उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता ॥ १५॥
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव ।
साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम् ॥ १६॥
एवं सञ्चीविता तेन भृगुणा वरवर्णिनी ।
विस्मयं परमं जग्मुर्देवाः सेन्द्रा विलोक्य तत् ॥ १७॥
इन्द्रः सुरानथोवाच मुनिना जीविता सती ।
काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित् ॥ १८॥
व्यास उवाच ।
गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप ।
स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम् ॥ १९॥
विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा ।
उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः ॥ २०॥
गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने ।
समाराधय तन्वङ्गि मत्कृते तं वशं कुरु ॥ २१॥
उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः ।
भयं मे तरसा गत्वा हर तत्र वराश्रमे ॥ २२।
सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा ।
तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे ॥ २३॥
तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा ।
कदलीदलमादाय वीजयामास तं मुनिम् ॥ २४॥
निर्मलं शीतलं वारि समानीय सुवासितम् ।
पानाय कल्पयामास भक्त्या परमया लघु ॥ २५॥
छायां वस्त्रातपत्रेण भास्करे मध्यगे सति ।
रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती ॥ २६॥
फलान्यानीय दिव्यानि पक्वानि मधुराणि च ।
मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च ॥ २७॥
कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः ।
दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्धये ॥ २८॥
निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् ।
तस्मिन्मुनौ चादरस्था चकार व्यजनं शनैः ॥ २९॥
हावभावादिकं किञ्चिद्विकारजननं च तत् ।
न चकार जयन्ती सा शापभीता मुनेस्तदा ॥ ३०॥