स्कन्ध 4, अध्याय 10: भृगुशापकारणवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.१० दशमोऽध्यायः ।
भृगुशापकारणवर्णनम् ।
जनमेजय उवाच ।
सन्देहोऽयं महानत्र पाराशर्य कथानके ।
नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ ॥ १॥
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.१० दशमोऽध्यायः ।
भृगुशापकारणवर्णनम् ।
जनमेजय उवाच ।
सन्देहोऽयं महानत्र पाराशर्य कथानके ।
नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ ॥ १॥
तीर्थाश्रयौ सत्त्वयुक्तौ वन्याशनपरौ सदा ।
धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ ॥ २॥
कथं रागसमायुक्तौ जातौ युद्धे परस्परम् ।
सङ्ग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम् ॥ ३॥
प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल ।
हित्वा शान्तिसुखं युद्धं कृतवन्तौ कथं मुनी ॥ ४॥
कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी ।
कथयस्व महाभाग कारणं विग्रहस्य वै ॥ ५॥
(कामिनी कनकं कार्यं कारणं विग्रहस्य वै) ॥
युद्धबुद्धिः कथं जाता तयोश्च तद्विरक्तयोः ।
तथाविधं तपस्तप्तं ताभ्याञ्च केन हेतुना ॥ ६॥
मोहार्थं सुखभोगार्थं स्वर्गार्थं वा परन्तप ।
कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम् ॥ ७॥
मुनिभ्यां शान्तचित्ताभ्यां प्राप्तं किं फलमद्भुतम् ।
तपसा पीडितो देहः सङ्ग्रामेण पुनः पुनः ॥ ८॥
दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ ।
न राज्यार्थे धने वापि न दारेषु गृहेषु च ॥ ९॥
किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना ।
निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम् ॥ १०॥
दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् ।
सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा ॥ ११॥
न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी ।
धर्मपुत्रौ हरेरंशौ सर्वज्ञौ सर्वभूषितौ ॥ १२॥
कृतवन्तौ कथं युद्धं दुःखं धर्मविनाशकम् ।
त्यक्त्वा तपः समाधीतं सुखारामं महत्फलम् ॥ १३॥
संयुगं दारुणं कृष्ण नैव मूर्खोऽपि वाञ्छति ।
श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः ॥ १४॥
अहङ्कारभवात्पापात्पातितः पृथिवीतले ।
यज्ञकृद्दानकर्ता च धार्मिकः पृथिवीपतिः ॥ १५॥
शब्दोच्चारणमात्रेण पातितो वज्रपाणिना ।
अहङ्कारमृते युद्धं न भवत्येव निश्चयः ॥ १६॥
किं फलं तस्य युद्धस्य मुनेः पुण्यविनाशनम् ।
व्यास उवाच ।
राजन् संसारमूलं हि त्रिविधः परिकीर्तितः ॥ १७॥
अहङ्कारस्तु सर्वज्ञैर्मुनिभिर्धर्मनिश्चये ।
स कथं मुनिना त्यक्तुं योग्यो देहभृता किल ॥ १८॥
कारणेन विना कार्यं न भवत्येव निश्चयः ।
तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवन्ति ते ॥ १९॥
राजसाद्वा महाभाग तामसात्कलहस्तथा ।
क्रिया स्वल्पापि राजेन्द्र नाहङ्कारं विना क्वचित् ॥ २०॥
शुभा वाप्यशुभा वापि प्रभवत्यपि निश्चयः ।
अहङ्काराद् बन्धकारी नान्योऽस्ति जगतीतले ॥ २१॥
येनेदं रचितं विश्वं कथं तद्रहितं भवेत् ।
ब्रह्मा रुद्रस्तथा विष्णुरहङ्कारयुतास्त्वमी ॥ २२॥
अन्येषां चैव का वार्ता मुनीनां वसुधाधिप ।
अहङ्कारावृतं विश्वं भ्रमतीदं चराचरम् ॥ २३॥
पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् ।
देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते ॥ २४॥
रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् ।
विष्णोरप्यवताराणां सङ्ख्यां जानाति कः पुमान् ॥ २५॥
विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु ।
नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः ॥ २६॥
कामठं सौकरं चैव नारसिंहञ्च वामनम् ।
युगे युगे जगन्नाथो वासुदेवो जनार्दनः ॥ २७॥
अवतारानसङ्ख्यातान्करोति विधियन्त्रितः ।
वैवस्वते महाराज सप्तमे भगवान्हरिः ॥ २८॥
मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः ।
भृगुशापान्महाराज विष्णुर्देववरः प्रभुः ॥ २९॥