स्कन्ध 4, अध्याय 9: प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम्, Verse 1
४.९ नवमोऽध्यायः ।
प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।
व्यास उवाच ।
कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः ।
न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा ॥ १॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
४.९ नवमोऽध्यायः ।
प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।
व्यास उवाच ।
कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः ।
न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा ॥ १॥
ददर्श बाणानपरान्नानाजातीयकांस्तदा ।
गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान् ॥ २॥
चिन्तयामास मनसा कस्येमे विशिखास्त्विह ।
ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने ॥ ३॥
एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी ।
समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा ॥ ४॥
तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते ।
शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी ॥ ५॥
ध्यानस्थौ तौ महाभागौ नरनारायणावृषी ।
दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा ॥ ६॥
क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः ।
किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः ॥ ७॥
न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि ।
तपसश्चरणं तीव्रं तथा चापस्य धारणम् ॥ ८॥
विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् ।
ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम् ॥ ९॥
क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ ।
धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः ॥ १०॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत ।
का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः ॥ ११॥
सामर्थ्ये सति यत्कुर्यात्तत्सम्पद्येत तस्य हि ।
आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ ॥ १२॥
युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि ।
गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे ॥ १३॥
ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः ।
विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः ॥ १४॥
प्रह्लाद उवाच ।
तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ ।
मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ १५॥
न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः ।
का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन ॥ १६॥
व्यास उवाच ।
तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह ।
युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी ॥ १७॥
अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम ।
(युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन ।
) ॥
व्यास उवाच ।
तन्निशम्य वचस्तस्य दैत्येन्द्रः कुपितस्तदा ॥ १८॥
प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः ।
येन केनाप्युपायेन जेष्यामि तावुभावपि ॥ १९॥
नरनारायणौ दान्तावृषी तपिसमन्वितौ ।
व्यास उवाच ।
इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम् ॥ २०॥
आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह ।
नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान् ॥ २१॥
मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव ॥ २२॥
तान्दैत्यराजस्तपनीयपुङ्खै- श्चिच्छेद बाणैस्तरसा समेत्य ।
समीक्ष्य छिन्नांश्च नरः स्वसृष्टा- नन्यान्मुमोचाशु रुषान्वितो वै ॥ २३॥
दैत्याथिपस्तानपि तीव्रवेगै- श्छित्त्वा जघानोरसि तं मुनीन्द्रम् ।
नरोऽपि तं पञ्चभिराशुगैश्च कुद्धोऽहनद्दैत्यपतिं बाहुदेशे ॥ २४॥
सेन्द्राः सुरास्तत्र तयोर्हि युद्धं द्रष्टुं विमानैर्गगनस्थिताश्च ।
नरस्य वीर्यं युधि संस्थितस्य ते तुष्टुवुर्दैत्यपतेश्च भूयः ॥ २५॥
ववर्ष दैत्याधिप आत्तचापः शिलीमुखानम्बुधरो यथापः ।
आदाय शार्ङ्ग धनुरप्रमेयं मुमोच बाणाञ्छितहेमपुङ्खान् ॥ २६॥
बभूव युद्धं तुमुलं तयोस्तु जयैषिणोः पार्थिव देवदैत्ययोः ।
ववर्षुराकाशपथे स्थितास्ते पुष्पाणि दिव्यानि प्रहृष्टचित्ताः ॥ २७॥
चुकोप दैत्याधिपतिर्हरौ स मुमोच बाणानतितीव्रवेगान् ।
चिच्छेद तान्धर्मसुतः सुतीक्ष्णै- र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु ॥ २८॥
ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः ।
ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् ।
नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः ॥ २९॥