स्कन्ध 1, अध्याय 7: विष्णुप्रबोधः, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.७ सप्तमोऽध्यायः ।
विष्णुप्रबोधः ।
सूत उवाच ।
तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् ।
सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित् ॥ १॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.७ सप्तमोऽध्यायः ।
विष्णुप्रबोधः ।
सूत उवाच ।
तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् ।
सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित् ॥ १॥
न जानेऽहं बलं नूनमेतयोर्वा यथातथम् ।
अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते ॥ २॥
स्तुतिं करोमि चेदद्य दुष्टयोर्मदमत्तयोः ।
प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम् ॥ ३॥
वधिष्यति तदैकोऽपि निर्बलत्वे प्रकाशिते ।
दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम् ॥ ४॥
विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् ।
चतुर्भुजं महावीर्यं दुःखहा स भविष्यति ॥ ५॥
इति सञ्चिन्त्य मनसा पद्मनालगतोऽब्जजः ।
जगाम शरणं विष्णुं मनसा दुःखनाशकम् ॥ ६॥
तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् ।
नारायणं जगन्नाथं निस्पन्दं योगनिद्रया ॥ ७॥
ब्रह्मोवाच ।
दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव ।
भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते ॥ ८॥
अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते ।
दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर ॥ ९॥
सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित ।
उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम् ॥ १०॥
विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन ।
जगद्योने निराकार सर्गस्थित्यन्तकारक ॥ ११॥
इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ ।
न जानास्यखिलाधार कथं मां सङ्कटे गतम् ॥ १२॥
उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् ।
पालकत्वं महाविष्णो निराधारं भवेत्ततः ॥ १३॥
एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः ।
योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत् ॥ १४॥
नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः ।
जजागार न धर्मात्मा किं करोम्यद्य दुःखितः ॥ १५॥
हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ ।
किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित् ॥ १६॥
इति सञ्चिन्त्य मनसा निश्चयं प्रतिपद्य च ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ॥ १७॥
विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा ।
यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पन्दवर्जितः ॥ १८॥
व्यसुर्यथा न जानाति गुणाच्छब्दादिकानिह ।
तथा हरिर्न जानाति निद्रामीलितलोचनः ॥ १९॥
न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ ।
मन्ये नास्य वशे निद्रा निद्रयायं वशीकृतः ॥ २०॥
यो यस्य वशमापन्तः स तस्य किङ्करः किल ।
तस्माच्च योगनिद्रेयं स्वामिनी मापतेर्हरेः ॥ २१॥
सिन्धुजाया अपि वशे यया स्वामी वशीकृतः ।
नूनं जगदिदं सर्वं भगवत्या वशीकृतम् ॥ २२॥
अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा ।
सर्वे वयं वशे यस्या नात्र किञ्चिद्विचारणा ॥ २३॥
हरिरप्यवशः शेते यथान्यः प्राकृतो जनः ।
ययाभिभूतः का वार्ता किलान्येषां महात्मनाम् ॥ २४॥
स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः ।
घटयिष्यति युद्धे च वासुदेवः सनातनः ॥ २५॥
इति कृत्वा मतिं ब्रह्मा पद्मनालस्थितस्तदा ।
तुष्टाव योगनिद्रां तां विष्णोरङ्गेषु संस्थिताम् ॥ २६॥
ब्रह्मोवाच ।
देवि त्वमस्य जगतः किल कारणं हि ज्ञातं मया सकलवेदवचोभिरम्ब ।
यद्विष्णुरप्यखिललोकविवेककर्ता निद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७॥
को वेद ते जननि मोहविलासलीलां मूढोऽस्म्यहं हरिरयं विवशश्च शेते ।
ईदृक्तया सकलभूतमनोनिवासे विद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८॥
साङ्ख्या वदन्ति पुरुषं प्रकृतिं च यां तां चैतन्यभावरहितां जगतश्च कर्त्रीम् ।
किं तादृशासि कथमत्र जगन्निवास- श्चैतन्यताविरहितो विहितस्त्वयाद्य ॥ २९॥
नाट्यं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगम् ।
ध्यायन्ति यां मुनिगणा नियतं त्रिकालं सन्ध्येति नाम परिकल्प्य गुणान् भवानि ॥ ३०॥