स्कन्ध 4, अध्याय 7: अहङ्कारावर्तनवर्णनम्, Verse 1
४.७ सप्तमोऽध्यायः ।
अहङ्कारावर्तनवर्णनम् ।
व्यास उवाच ।
इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् ।
विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
४.७ सप्तमोऽध्यायः ।
अहङ्कारावर्तनवर्णनम् ।
व्यास उवाच ।
इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् ।
विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना ॥ १॥
हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् ।
अहङ्कारादिदं प्राप्तं दुःखं नात्र विचारणा ।
मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः ॥ २॥
मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः ।
दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम् ॥ ३॥
वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् ।
उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै ॥ ४॥
तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः ।
ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै ॥ ५॥
बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् ।
यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः ॥ ६॥
शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः ।
मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः ॥ ७॥
तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् ।
व्यास उवाच ।
इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा ॥ ८॥
विमर्शमकरोच्चित्ते सुखोत्पादनसाधने ।
द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः ॥ ९॥
कामादप्यधिको लोके लोभादपि च दारुणः ।
क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम् ॥ १०॥
दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् ।
यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा ॥ ११॥
देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः ।
व्यास उवाच ।
इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम् ॥ १२॥
उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः ।
नर उवाच ।
नारायण महाभाग कोपं यच्छ महामते ॥ १३॥
शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् ।
पुराहङ्कारदोषेण तपो नष्टं किलावयोः ॥ १४॥
सङ्ग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह ।
दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम् ॥ १५॥
दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम ।
तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर ॥ १६॥
(शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितं ।
) ॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः ।
जनमेजय उवाच ।
संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना ॥ १७॥
विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा ।
कृतवन्तौ कथं युद्धं नरनारायणावृषी ॥ १८॥
तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ ।
समागमः कथं जातस्तयोर्दैत्यसुतस्य च ॥ १९॥
सङ्ग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना ।
प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः ॥ २०॥
नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ ।
तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम् ॥ २१॥
तदा तपसि धर्मे च श्रम एव हि केवलम् ।
क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च ॥ २२॥
तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् ।
न क्रोधो न च मात्सर्यमहङ्काराङ्कुरं विना ॥ २३॥
अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल ।
वर्षकोटिसहस्रं तु तपः कृत्वातिदारुणम् ॥ २४॥
अहङ्काराङ्कुरे जाते व्यर्थं भवति सर्वथा ।
यथा सूर्योदये जाते तमोरूपं न तिष्ठति ॥ २५॥
अहङ्काराङ्कुरस्याग्रे तथा पुण्यं न तिष्ठति ।
प्रह्लादोऽपि महाभाग हरिणा समयुध्यत ॥ २६॥
तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले ।
नरनारायणौ शान्तौ विहाय परमं तपः ॥ २७॥
कृतवन्तौ यदा युद्धं क्व शमः सुकृतं पुनः ।
ईदृग्भ्यां सत्त्वयुक्ताभ्यामजेया यद्यहङ्कृतिः ॥ २८॥
मादृशानाञ्ज का वार्ता मुनेऽहङ्कारसङ्क्षये ।
अहङ्कारपरित्यक्तो न कोऽप्यस्ति जगत्त्रये ॥ २९॥