Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.६ षष्ठोऽध्यायः ।

अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।

व्यास उवाच ।

प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे ।

पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 2

आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा ।

सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 3

बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः ।

वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 4

प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः ।

बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 5

ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः ।

इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 6

रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् ।

चकार त्वरितस्तत्र वासं बदरिकाश्रमे ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 7

रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे ।

गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 8

तच्छ्रुत्वा मधुरोद्गीतं कोकिलानाञ्च कूजितम् ।

भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 9

ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् ।

जातौ चिन्तापरौ तत्र नरनारायणावृषी ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 10

किमद्य शिशिरापायः सम्भृतः समयं विना ।

प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 11

कालधर्मविपर्यासः कथमद्य दुरासदः ।

नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 12

नारायण उवाच ।

पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै ।

कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 13

शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः ।

वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 14

रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका ।

नीलाशोककचा श्यामा विकासिकमलानना ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 15

नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी ।

प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 16

बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा ।

पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 17

बर्हिवृन्दकलापा च सारसस्वननूपुरा ।

वासन्ती बद्धरशना मत्तहंसगतिस्तथा ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 18

पुत्रजीवांशुकन्यस्तरोमराजिविराजिता ।

वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 19

अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना ।

तपोविघ्नकरा नूनं देवर्षे परिचिन्तय ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 20

श्रूयते सुरनारीणां गानं ध्यानविनाशनम् ।

आवयोस्तपिभङ्गाय कृतं मघवता किल ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 21

ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् ।

विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 22

वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः ।

नान्यत्कारणमस्तीह शतक्रतुकृतिं विना ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 23

इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ ।

सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 24

ददर्श भगवान्सर्वान्नरो नारायणस्तथा ।

विस्मयाविष्टमनसौ बभूवतुरुभावपि ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 25

मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् ।

पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 26

प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् ।

चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 27

विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम् ।

एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 28

तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च ।

वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 29

प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा ।

दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 6: अप्सरां नारायणसमीपे प्रार्थनाकरणम्, Verse 30

जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् ।

तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम् ॥ ३०॥