Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ४.४ चतुर्थोऽध्यायः ।

अधमजगतः स्थितिवर्णनम् ।

राजोवाच ।

विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते ।

संसारोऽयं पापरूपः कथं मुच्येत बन्धनात् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 2

कश्यपस्यापि दायादस्त्रिलोकीविभवे सति ।

कृतवानीदृशं कर्म को न कुर्याज्जुगुप्सितम् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 3

गर्भे प्रविश्य बालस्य हननं दारुणं किल ।

सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 4

शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत ।

कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 5

पितामहा मे सङ्ग्रामे कुरुक्षेत्रेऽतिदारुणम् ।

कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 6

भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः ।

सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 7

असारतां विजानन्तः संसारस्य सुमेधसः ।

देवांशाश्च कथं चक्रुर्निन्दितं धर्मतत्पराः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 8

कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् ।

चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 9

आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् ।

पुरुषो विषयासक्तो रागी भवति सर्वथा ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 10

रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् ।

द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 11

जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना ।

छलेन रचितं रूपं ब्राह्मणस्य विजानता ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 12

तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः ।

अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 13

कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः ।

परलोकपदार्थं वा यशसे वान्यथा किल ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 14

धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः ।

द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 15

दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै ।

तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 16

धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् ।

धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 17

छलार्थञ्च यदा विष्णुर्वामनोऽभूज्जगत्प्रभुः ।

येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 18

विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः ।

धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 19

स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना ।

जितं केन तयोः कृष्ण बलिना वामनेन वा ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 20

छलकर्मविदा चायं सन्देहोऽत्र महान्मम ।

वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 21

पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः ।

व्यास उवाच ।

जितं वै बलिना राजन् दत्ता येन च मेदिनी ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 22

त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् ।

छलनार्थमिदं राजन्वामनत्वं नराधिप ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 23

सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च ।

सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 24

दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल ।

माया बलवती भूप त्रिगुणा बहुरूपिणी ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 25

ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः ।

तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 26

मिश्रेण जनिता चैव स्थितिरेषा सनातनी ।

वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 27

सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः ।

दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 28

अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप ।

नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 29

धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह ।

सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 4, अध्याय 4: अधमजगतः स्थितिवर्णनम्, Verse 30

गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः ।

निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा ॥ ३०॥