स्कन्ध 4, अध्याय 2: कर्मणो जन्मादिकारणत्वनिरूपणम्, Verse 1
४.२ द्वितीयोऽध्यायः ।
कर्मणो जन्मादिकारणत्वनिरूपणम् ।
सूत उवाच ।
एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः ।
परीक्षितसुतं शान्तं ततो वै जनमेजयम् ॥ १॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
४.२ द्वितीयोऽध्यायः ।
कर्मणो जन्मादिकारणत्वनिरूपणम् ।
सूत उवाच ।
एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः ।
परीक्षितसुतं शान्तं ततो वै जनमेजयम् ॥ १॥
उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः ।
व्यास उवाच ।
राजन् किमेतद्वक्तव्यं कर्मणां गहना गतिः ॥ २॥
दुर्ज्ञेया किल देवानां मानवानां च का कथा ।
यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम् ॥ ३॥
कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः ।
अनादिनिधना जीवाः कर्मबीजसमुद्भवाः ॥ ४॥
नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः ।
कर्मणा रहितो देहसंयोगो न कदाचन ॥ ५॥
शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् ।
त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये ॥ ६॥
सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः ।
वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल ॥ ७॥
ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप ।
सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा ॥ ८॥
कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः ।
दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप ॥ ९॥
रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि ।
देवानां मानवानाञ्च तिरश्चां च तथा पुनः ॥ १०॥
विकाराः सर्व एवैते देहेन सह सङ्गताः ।
पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः ॥ ११॥
उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते ।
कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान् ॥ १२॥
कपाली च तथा रुद्रः कर्मणैव न संशयः ।
अनादिनिधनं चैतत्कारणं कर्म विद्यते ॥ १३॥
तेनेह शाश्वतं सर्वं जगत्स्थावरजङ्गमम् ।
नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा ॥ १४॥
न जानन्ति किमेतद्वै नित्यं वानित्यमेव च ।
मायायां विद्यमानायां जगन्नित्यं प्रतीयते ॥ १५॥
कार्याभावः कथं वाच्यः कारणे सति सर्वथा ।
माया नित्या कारणञ्च सर्वेषां सर्वदा किल ॥ १६॥
कर्मबीजं ततोऽनित्यं चिन्तनीयं सदा बुधैः ।
भ्रमत्येव जगत्सर्वं राजन्कर्मनियन्त्रितम् ॥ १७॥
नानायोनिषु राजेन्द्र नानाधर्ममयेषु च ।
इच्छया च भवेञ्चन्म विष्णोरमिततेजसः ॥ १८॥
युगे युगेष्वनेकासु नीचयोनिषु तत्कथम् ।
त्यक्त्वा वैकुण्ठसंवासं सुखभोगाननेकशः ॥ १९॥
विण्मूत्रमन्दिरे वासं सन्त्रस्तः कोऽभिवाञ्छति ।
पुष्पावचयलीलां च जलकेलिं सुखासनम् ॥ २०॥
त्यक्त्वा गर्भगृहे वासं कोऽभिवाच्छति बुद्धिमान् ।
तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम् ॥ २१॥
त्यक्त्वाधोमुखवासं च कोऽभिवाञ्छति पण्डितः ।
गीतं नृत्यञ्च वाद्यञ्च नानाभावसमन्वितम् ॥ २२॥
मुक्त्वा को नरके वासं मनसापि विचिन्तयेत् ।
सिन्धुजाद्भुतभावानां रसं त्यक्त्वा सुदुस्त्वजम् ॥ २३॥
विण्मूत्ररसपानञ्ज क इच्छेन्मतिमान्नरः ।
गर्भवासात्परो नास्ति नरको भुवनत्रये ॥ २४॥
तद्भीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः ।
हित्वा भोगञ्च राज्यञ्च वने यान्ति मनस्विनः ॥ २५॥
यद्भीतास्तु विमूढात्मा कस्तं सेवितुमिच्छति ।
गर्भे तुदन्ति कृमयो जठराग्निस्तपत्यधः ॥ २६॥
वपासंवेष्टनं कूरं किं सुखं तत्र भूपते ।
वरं कारागृहे वासो बन्धनं निगडैर्वरम् ॥ २७॥
अल्पमात्रं क्षणं नैव गर्भवासः क्वचिच्छुभः ।
गर्भवासे महद्दुःखं दशमासनिवासनम् ॥ २८॥
तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे ।
बालभावे तदा दुःखं मूकाज्ञभावसंयुतम् ॥ २९॥
क्षुतृष्णावेदनाशक्तः परतन्त्रोऽतिकातरः ।
क्षुधिते रुदिते बाले माता चिन्तातुरा तदा ॥ ३०॥