स्कन्ध 4, अध्याय 1: जनमेजयप्रश्नाः, Verse 1
४ श्रीमद्देवीभागवतमहापुराणे चतुर्थः स्कन्धः ४.१ प्रथमोऽध्यायः ।
जनमेजयप्रश्नाः ।
जनमेजय उवाच ।
वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ ।
प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ॥ १॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
४ श्रीमद्देवीभागवतमहापुराणे चतुर्थः स्कन्धः ४.१ प्रथमोऽध्यायः ।
जनमेजयप्रश्नाः ।
जनमेजय उवाच ।
वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ ।
प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ॥ १॥
शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् ।
श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान् ॥ २॥
देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः ।
कारागारे कथं बद्धः कंसस्य धर्मतत्परः ॥ ३॥
देवक्या भार्यया सार्धं किमागः कृतवानसौ ।
देवक्या बालषट्कस्य विनाशश्च कृतः पुनः ॥ ४॥
तेन कंसेन कस्माद्वै ययातिकुलजेन च ।
कारागारे कथं जन्म वासुदेवस्य वै हरेः ॥ ५॥
गोकुले च कथं नीतो भगवान्सात्वतां पतिः ।
गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ ॥ ६॥
देवकीवसुदेवौ च कृष्णस्यामिततेजसः ।
कथं न मोचितौ वृद्धौ पितरौ हरिणामुना ॥ ७॥
जगत्कर्तुं समर्थेन स्थितेन जनकोदरे ।
प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः ॥ ८॥
जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः ।
के ते पुत्राश्च का बाला या कंसेन विपोथिता ॥ ९॥
शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः ।
गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ ॥ १०॥
कार्याणि तत्र तान्येव देहत्यागं च तस्य वै ।
किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे ॥ ११॥
चरितं वासुदेवस्य त्वमाख्याहि यथातथम् ।
नरनारायणौ देवौ पुराणावृषिसत्तमौ ॥ १२॥
धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् ।
यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे ॥ १३॥
निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ ।
विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम् ॥ १४॥
तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ ।
प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः ॥ १५॥
विद्यमानशरीरौ तौ कथं देहान्तरं गतौ ।
नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम् ॥ १६॥
यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ ।
तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ ॥ १७॥
शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः ।
शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत् ॥ १८॥
ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते ।
विपरीतमिदं भाति नरनारायणौ च तौ ॥ १९॥
तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः ।
केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः ॥ २०॥
ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद ।
यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः ॥ २१॥
कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः ।
प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम् ॥ २२॥
वर्तमाने वासुदेवे देवदेवे जनार्दने ।
पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम् ॥ २३॥
द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् ।
न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा ॥ २४॥
सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो ।
यत्पत्न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः ॥ २५॥
स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम ।
संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः ॥ २६॥
विष्णोरंशः समुद्भूतः शौरिर्भूभारहारकृत् ।
स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः ॥ २७॥
द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः ।
अवतारो हरेः प्रोक्तो भूभारहरणाय वै ॥ २८॥
पापात्मनां विनाशाय धर्मसंस्थापनाय च ।
तत्कथं वासुदेवेन चौरास्ते न निपातिताः ॥ २९॥
यैर्हृता वासुदेवस्य पत्न्यः संलुण्ठिताश्च ताः ।
स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः ॥ ३०॥