स्कन्ध 3, अध्याय 30: रामाय देवीवरदानम्, Verse 1
३.३० त्रिंशोऽध्यायः ।
रामाय देवीवरदानम् ।
व्यास उवाच ।
एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः ।
आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ १॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.३० त्रिंशोऽध्यायः ।
रामाय देवीवरदानम् ।
व्यास उवाच ।
एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः ।
आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ १॥
रणयन्महतीं वीणां स्वरग्रामविभूषिताम् ।
गायन्बृहद्रथं साम तदा तमुपतस्थिवान् ॥ २॥
दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् ।
आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः ॥ ३॥
पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः ।
उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः ॥ ४॥
उपविष्टं तदा रामं सानुजं दुःखमानसम् ।
पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः ॥ ५॥
कथं राघव शोकार्तो यथा वै प्राकृतो नरः ।
हृतां सीतां च जानामि रावणेन दुरात्मना ॥ ६॥
सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् ।
पौलस्त्येन हृतां मोहान्मरणं स्वमजानता ॥ ७॥
तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै ।
मैथिलीहरणं जातमेतदर्थं नराधिप ॥ ८॥
पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी ।
रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता ॥ ९॥
प्रार्थिता रावणेनासौ भव भार्येति राघव ।
तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात् ॥ १०॥
शशाप तत्क्षणं राम रावणं तापसी भृशम् ।
कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम् ॥ ११॥
दुरात्मंस्तव नाशार्थं भविष्यामि धरातले ।
अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि ॥ १२॥
सेयं रमांशसम्भूता गृहीता तेन रक्षसा ।
विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात् ॥ १३॥
तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः ।
प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः ॥ १४॥
कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा ।
सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम् ॥ १५॥
कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् ।
पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा ॥ १६॥
सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता ।
जाता कमलपत्राक्षी वर्तते वीक्षिता मया ॥ १७॥
उपायं कथयाम्यद्य तस्य नाशाय राघव ।
व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम् ॥ १८॥
नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् ।
सर्वसिद्धिकरं राम जपहोमविधानतः ॥ १९॥
मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः ।
दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि ॥ २०॥
विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा ।
तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै ॥ २१॥
सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् ।
विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै ॥ २२॥
विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः ।
भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च ॥ २३॥
गुरुणा हृतदारेण कृतमेतन्महाव्रतम् ।
तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च ॥ २४॥
इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् ।
त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम् ॥ २५॥
हरिणा मधुनाशाय कृतं मेरौ महामते ।
विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः ॥ २६॥
श्रीराम उवाच ।
का देवी किं प्रभावा सा कुतो जाता किमाह्वया ।
व्रतं किं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २७॥
नारद उवाच ।
शृणु राम सदा नित्या शक्तिराद्या सनातनी ।
सर्वकामप्रदा देवी पूजिता दुःखनाशिनी ॥ २८॥
कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह ।
तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत् ॥ २९॥
विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम ।
रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा ॥ ३०॥