स्कन्ध 3, अध्याय 29: लक्ष्मणकृतरामशोकसान्त्वनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.२९ एकोनत्रिंशोऽध्यायः ।
लक्ष्मणकृतरामशोकसान्त्वनम् ।
व्यास उवाच ।
तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला ।
वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह ॥ १॥