स्कन्ध 3, अध्याय 28: रामचरित्रवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.२८ अष्टाविंशोऽध्यायः ।
रामचरित्रवर्णनम् ।
जनमेजय उवाच ।
कथं रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् ।
राज्यभ्रष्टः कथं सोऽथ कथं सीता हृता पुनः ॥ १॥