स्कन्ध 3, अध्याय 26: कुमारीपूजावर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.२६ षड्विंशोऽध्यायः ।
कुमारीपूजावर्णनम् ।
जनमेजय उवाच ।
नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम ।
विधानं विधिवद्ब्रूहि शरत्काले विशेषतः ॥ १॥