स्कन्ध 3, अध्याय 25: देवीस्थापनवर्णनम्, Verse 1
३.२५ पञ्चविंशोऽध्यायः ।
देवीस्थापनवर्णनम् ।
व्यास उवाच ।
गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः ।
शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम् ॥ १॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.२५ पञ्चविंशोऽध्यायः ।
देवीस्थापनवर्णनम् ।
व्यास उवाच ।
गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः ।
शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम् ॥ १॥
मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल ।
न पिता ते युधाजिच्च शपे ते चरणौ तथा ॥ २॥
दुर्गया तौ हतौ सङ्ख्ये नापराधो ममात्र वै ।
अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥ ३॥
न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि ।
स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान् ॥ ४॥
दासोऽस्मि तव भो मातर्यथा मम मनोरमा ।
तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि ॥ ५॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन ॥ ६॥
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ ७॥
दैवाधीनमिदं सर्वं नात्माधीनं कदाचन ।
न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः ॥ ८॥
यथा दारुमयी योषा नटादीनां प्रचेष्टते ।
तथा स्वकर्मवशगो देही सर्वत्र वर्तते ॥ ९॥
अहं वनगतो मातर्नाभवं दुःखमानसः ।
चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च ॥ १०॥
मृतो मातामहोऽत्रैव विधुरा जननी मम ।
भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम् ॥ ११॥
लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता ।
पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया ॥ १२॥
माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति ।
विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला ॥ १३॥
मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः ।
पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः ॥ १४॥
दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे ।
न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित् ॥ १५॥
नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे ।
तदाशी नरकं याति न नीवाराशनः क्वचित् ॥ १६॥
धर्मस्याचरणं कार्यं पुरुषेण विजानता ।
सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत् ॥ १७॥
मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे ।
आहारादि सुखं नूनं भवेत्सर्वासु योनिषु ॥ १८॥
प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् ।
स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु ॥ १९॥
व्यास उवाच ।
इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता ।
पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना ॥ २०॥
सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता ।
हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै ॥ २१॥
न तं वारयितुं शक्ता तदाऽहं न सुतं मम ।
यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत ॥ २२॥
तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च ।
नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम् ॥ २३॥
पुत्र त्वमसि कल्याण भगिनी मे मनोरमा ।
न क्रोधो न च शोको मे त्वयि पुत्र मनागपि ॥ २४॥
कुरु राज्यं महाभाग प्रजाः पालय सुव्रत ।
भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम् ॥ २५॥
तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः ।
जगाम भवनं रम्यं यत्र पूर्वं मनोरमा ॥ २६॥
न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः ।
दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम् ॥ २७॥
सिंहासनं तथा हैमं कारयित्वा मनोहरम् ।
सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम् ॥ २८॥
स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् ।
राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम् ॥ २९॥
पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः ।
माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा ॥ ३०॥