स्कन्ध 3, अध्याय 24: देवीमहिमवर्णनम्, Verse 1
३.२४ चतुर्विंशोऽध्यायः ।
देवीमहिमवर्णनम् ।
व्यास उवाच ।
तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः ।
प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ॥ १॥
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.२४ चतुर्विंशोऽध्यायः ।
देवीमहिमवर्णनम् ।
व्यास उवाच ।
तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः ।
प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ॥ १॥
सुबाहुरुवाच ।
एकतो देवलोकस्य राज्यं भूमण्डलस्य च ।
एकतो दर्शनं ते वै न च तुल्यं कदाचन ॥ २॥
दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे ।
कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले ॥ ३॥
एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् ।
तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी ॥ ४॥
नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा ।
दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ॥ ५॥
रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह ।
यथा सुदर्शनस्त्रातो रिपुसङ्घादनामयः ॥ ६॥
तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके ।
यावत्पुरी भवेद्भूमौ सुप्रतिष्ठा सुसंस्थिता ॥ ७॥
तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे ।
वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम् ॥ ८॥
विविधान्सकलान्कामान्देहि मे विद्विषो जहि ।
अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा ॥ ९॥
व्यास उवाच ।
इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी ।
तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः ॥ १०॥
दुर्गोवाच ।
राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति ।
रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी ॥ ११॥
अथो सुदर्शनस्तत्र समागत्य मुदान्वितः ।
प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम् ॥ १२॥
अहो कृपा ये कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः ।
भक्तानुकम्पी सकलो जनोऽस्ति विमुक्तभक्तेरवनं व्रतं ते ॥ १३॥
त्वं देवि सर्वं सृजसि प्रपञ्चं श्रुतं मया पालयसि स्वसृष्टम् ।
त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै ॥ १४॥
करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु ।
कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः ॥ १५॥
व्यास उवाच ।
तं तथा भाषमाणं तु देवी प्राह दयान्विता ।
गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम् ॥ १६॥
स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः ।
शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम ॥ १७॥
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः ।
मम पूजा प्रकर्तव्या बलिदानविधानतः ॥ १८॥
अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ ।
पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम् ॥ १९॥
शरत्काले महापूजा कर्तव्या मम सर्वदा ।
नवरात्रविधानेन भक्तिभावयुतेन च ॥ २०॥
चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः ।
नवरात्रे महाराज पूजा कार्या विशेषतः ॥ २१॥
कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः ।
कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः ॥ २२॥
व्यास उवाच ।
इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी ।
नता सुदर्शनेनाथ स्तुता च बहुविस्तरम् ॥ २३॥
अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते ।
प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा ॥ २४॥
सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः ।
ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा ॥ २५॥
त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा ।
कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम ॥ २६॥
त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा ।
आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा ॥ २७॥
धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले ।
यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी ॥ २८॥
न जानीमो वयं सर्वे प्रभावं नृपसत्तम ।
चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा ॥ २९॥
धनदारसुतानां च चिन्तनेऽभिरताः सदा ।
मग्ना महार्वणे घोरे कामक्रोधझषाकुले ॥ ३०॥