स्कन्ध 3, अध्याय 23: सुबाहुकृतदेवीस्तुतिवर्णनम्, Verse 1
३.२३ त्रयोविंशोऽध्यायः ।
सुबाहुकृतदेवीस्तुतिवर्णनम् ।
व्यास उवाच ।
तस्मै गौरवभोज्यानि विधाय विधिवत्तदा ।
वासराणि च षड्राजा भोजयामास भक्तितः ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.२३ त्रयोविंशोऽध्यायः ।
सुबाहुकृतदेवीस्तुतिवर्णनम् ।
व्यास उवाच ।
तस्मै गौरवभोज्यानि विधाय विधिवत्तदा ।
वासराणि च षड्राजा भोजयामास भक्तितः ॥ १॥
एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः ।
पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह ॥ २॥
दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् ।
बभूव विमना राजा सुबाहुरमितद्युतिः ॥ ३॥
सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः ।
अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्किताः ॥ ४॥
भारद्वाजाश्रमं पुण्यं गत्वा तत्र समाहिताः ।
निवासाय विचारो वै कर्तव्यः सर्वथा नृप ॥ ५॥
नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ ।
जगन्माता भवानी मे साहाय्यं वै करिष्यति ॥ ६॥
व्यास उवाच ।
तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः ।
विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः ॥ ७॥
बलेन महताऽऽविष्टो ययावनु नृपोत्तमः ।
सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः ॥ ८॥
रथैः परिवृतः शूरः सदारो रथसंस्थितः ।
गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः ॥ ९॥
सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह ।
विधिवत्स शिवां चित्ते जगाम शरणं मुदा ॥ १०॥
जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् ।
निर्भयो वीतशोकश्च पत्न्या सह नवोढया ॥ ११॥
ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा ।
उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम् ॥ १२॥
काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह ।
निवारितस्तदाऽत्यर्थं राघवेण जिगीषता ॥ १३॥
तत्रापि नेदुः शङ्खाश्च भेर्यश्चानकदुन्दुभिः ।
सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम् ॥ १४॥
शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया ।
युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह ॥ १५॥
केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा ।
युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः ॥ १६॥
शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः ।
परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः ॥ १७॥
सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः ।
काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः ॥ १८॥
साहाय्यार्थं जगामाशु जामातरमनिन्दितम् ।
एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे ॥ १९॥
प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता ।
नानायुधधरा रम्या वराभूषणभूषिता ॥ २०॥
दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता ।
तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः ॥ २१॥
केयं सिंहसमारूढा कुतो वेति समुत्थिता ।
सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत् ॥ २२॥
पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् ।
अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता ॥ २३॥
निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि ।
सुदर्शनः सुबाहुश्च तामालोक्य वराननाम् ॥ २४॥
प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च ।
ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे ॥ २५॥
ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः ।
सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति ॥ २६॥
मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः ।
किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः ॥ २७॥
शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः ।
निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले ॥ २८॥
स्मृता मया महादेवी रक्षणार्थमुपागता ।
तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत् ॥ २९॥
युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् ।
किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम् ॥ ३०॥