स्कन्ध 3, अध्याय 22: सुदर्शनशशिकलयोर्विवाहवर्णनम्, Verse 1
३.२२ द्वाविंशोऽध्यायः ।
सुदर्शनशशिकलयोर्विवाहवर्णनम् ।
व्यास उवाच ।
श्रुत्वा सुतावाक्यमनिन्दितात्मा नृपांश्च गत्वा नृपतिर्जगाद ।
व्रजन्तु कामं शिविराणि भूपाः श्वो वा विवाहं किल संविधास्ये ॥ १॥