स्कन्ध 3, अध्याय 21: कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम्, Verse 1
३.२१ एकविंशोऽध्यायः ।
कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।
व्यास उवाच ।
सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा ।
चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम् ॥ १॥