स्कन्ध 3, अध्याय 20: स्वपितरं प्रति शशिकलावाक्यम्, Verse 1
३.२० विंशोऽध्यायः ।
स्वपितरं प्रति शशिकलावाक्यम् ।
व्यास उवाच ।
इतिवादिनि भूपाले केरलाधिपतौ तदा ।
प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥ १॥
Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.२० विंशोऽध्यायः ।
स्वपितरं प्रति शशिकलावाक्यम् ।
व्यास उवाच ।
इतिवादिनि भूपाले केरलाधिपतौ तदा ।
प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥ १॥
नीतिरेषा महीपाल यद्ब्रवीति भवानिह ।
समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः ॥ २॥
योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह ।
अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते ॥ ३॥
भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् ।
तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति ॥ ४॥
बलं वेदो हि विप्राणां भूभुजां चापजं बलम् ।
किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना ॥ ५॥
बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् ।
बलवानेव गृह्णातु नाबलस्तु कदाचन ॥ ६॥
तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् ।
अन्यथा कलहः कामं भविष्यति महीभुजाम् ॥ ७॥
एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् ।
आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः ॥ ८॥
समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः ।
राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता ॥ ९॥
किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः ।
पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि ॥ १०॥
सुबाहुरुवाच ।
पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः ।
मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः ॥ ११॥
किं करोमि सुताया मे न वशे वर्तते मनः ।
सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः ॥ १२॥
व्यास उवाच ।
सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् ।
ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः ॥ १३॥
राजपुत्र महाभाग केनाहूतोऽसि सुव्रत ।
एकाकी यः समायातः समाजे भूभृतामिह ॥ १४॥
न वै सैन्यं न सचिवा न कोशो न बृहद्बलम् ।
किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते ॥ १५॥
युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे ।
कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि ॥ १६॥
भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया ।
युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः ॥ १७॥
गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् ।
त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत ॥ १८॥
सुदर्शन उवाच ।
न बलं न सहायो मे न कोशो दुर्गसंश्रयः ।
न मित्राणि न सौहार्दी न नृपा रक्षका मम ॥ १९॥
अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः ।
स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः ॥ २०॥
नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी ।
तया यद्विहितं तच्च भविताऽद्य न संशयः ॥ २१॥
न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः ।
सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम् ॥ २२॥
यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः ।
शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम् ॥ २३॥
यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः ।
का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा ॥ २४॥
देवभूतमनुष्येषु सर्वभूतेषु सर्वदा ।
सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः ॥ २५॥
सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः ।
निर्धनं वा नरं कामं का चिन्ता वै तदा मम ॥ २६॥
तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः ।
न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः ॥ २७॥
अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् ।
तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे ॥ २८॥
सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै ।
नात्र शङ्का प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम् ॥ २९॥
जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः ।
भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा ॥ ३०॥