स्कन्ध 3, अध्याय 19: राजसंवादवर्णनम्, Verse 1
३.१९ एकोनविंशोऽध्यायः ।
राजसंवादवर्णनम् ।
व्यास उवाच ।
भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् ।
उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम् ॥ १॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.१९ एकोनविंशोऽध्यायः ।
राजसंवादवर्णनम् ।
व्यास उवाच ।
भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् ।
उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम् ॥ १॥
किं वृथा सुदति त्वं हि विप्रियं मम भाषसे ।
पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते ॥ २॥
सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः ।
बलकोशविहीनश्च परित्यक्तस्तु बान्धवैः ॥ ३॥
मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः ।
न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः ॥ ४॥
राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः ।
तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः ॥ ५॥
भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै ।
करोति रूपसम्पन्नः सर्वलक्षणसंयुतः ॥ ६॥
अन्यच्च कारणं सुभ्रु शृणु यच्च यथा श्रुतम् ।
युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः ॥ ७॥
दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् ।
वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह ॥ ८॥
भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् ।
मुनिना वारितः पश्चाज्जगाम निजमन्दिरम् ॥ ९॥
शशिकलोवाच ।
मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः ।
शर्यातिवचनेनैव सुकन्या च पतिव्रता ॥ १०॥
च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता ।
भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा ॥ ११॥
अकैतवकृतं नूनं सुखदं भवति स्त्रियाः ।
भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम् ॥ १२॥
तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् ।
मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः ॥ १३॥
तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् ।
व्यास उवाच ।
प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः ॥ १४॥
भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् ।
विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम् ॥ १५॥
द्विजं शशिकला तत्र प्रेषयामास सत्वरम् ।
यथा न वेद मे तातस्तथा गच्छ सुदर्शनम् ॥ १६॥
भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो ।
पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः ॥ १७॥
आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः ।
मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम् ॥ १८॥
भगवत्या समादिष्टः स्वप्ने मम सुरोपम ।
विषमद्मि हुताशे वा प्रपतामि प्रदीपिते ॥ १९॥
वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा ।
मनसा कर्मणा वाचा संवृतस्त्वं मया वरः ॥ २०॥
भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति ।
आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम् ॥ २१॥
यदधीनं जगत्सर्वं वर्तते सचराचरम् ।
भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति ॥ २२॥
यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः ।
वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः ॥ २३॥
यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ ।
इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया ॥ २४॥
गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः ।
सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा ॥ २५॥
चकार मुनिना तेन प्रेरितः परमादरात् ।
व्यास उवाच ।
गमनायोद्यतं पुत्रं तमुवाच मनोरमा ॥ २६॥
वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना ।
कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल ॥ २७॥
एकाकी कृतवैरश्च किं विचिन्त्य स्वयंवरे ।
युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः ॥ २८॥
न तेऽन्योऽस्ति सहायश्च तस्मान्मा व्रज पुत्रक ।
एकपुत्रातिदीनास्मि तवाधारा निराश्रया ॥ २९॥
नार्हसि त्वं महाभाग निराशां कर्तुम्मद्य माम् ।
पिता ते निहतो येन सोऽपि तत्रागतो नृपः ॥ ३०॥