स्कन्ध 3, अध्याय 18: शशिकलया मातरं प्रति सन्देशप्रेषणम्, Verse 1
३.१८ अष्टादशोऽध्यायः ।
शशिकलया मातरं प्रति सन्देशप्रेषणम् ।
व्यास उवाच ।
श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह ।
प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.१८ अष्टादशोऽध्यायः ।
शशिकलया मातरं प्रति सन्देशप्रेषणम् ।
व्यास उवाच ।
श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह ।
प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः ॥ १॥
सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाऽतिचञ्चला ।
कामबाणहतेवास गते तस्मिन्द्विजोत्तमे ॥ २॥
अथ कामार्दिता प्राह सखीं छन्दोऽनुवर्तिनीम् ।
विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु ॥ ३॥
अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् ।
दुनोति मदनः पापः किं करोमि क्व यामि च ॥ ४॥
स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः ।
तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु ॥ ५॥
चन्दनं देहलग्नं मे विषवद्भाति भामिनि ।
स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत् ॥ ६॥
न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते ।
न दिवा न निशायां वा न सुखं सुखसाधनैः ॥ ७॥
न शय्या न च ताम्बूलं न गीतं न च वादनम् ।
प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने ॥ ८॥
प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः ।
भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा ॥ ९॥
स्वयंवरं पिता मेऽद्य न करोति करोमि किम् ।
दास्यामि राजपुत्राय कामं सुदर्शनाय वै ॥ १०॥
सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः ।
रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः ॥ ११॥
व्यास उवाच ।
एकाकी निर्धनश्चैव बलहीनः सुदर्शनः ।
वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता ॥ १२॥
वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता ।
सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम् ॥ १३॥
स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखण्डिताम् ।
विश्वमातरमव्यक्तां सर्वसम्पत्कराम्बिकाम् ॥ १४॥
शृङ्गवेरपुराध्यक्षो निषादः समुपेत्य तम् ।
ददौ रथवरं तस्मै सर्वोपस्करसंयुतम् ॥ १५॥
चतुर्भिस्तुरगैर्युक्तं पताकावरमण्डितम् ।
जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा ॥ १६॥
सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् ।
वन्यैर्मूलफलैः सम्यगर्चयामास शम्बरम् ॥ १७॥
कृतातिथ्ये गते तस्मिन्निषादाधिपतौ तदा ।
मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः ॥ १८॥
राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा ।
स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः ॥ १९॥
प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी ।
सहायस्तु सुसम्पन्नो न चिन्तां कुरु सुव्रत ॥ २०॥
मनोरमां तथोचुस्ते मुनयः संशितव्रताः ।
पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते ॥ २१॥
सा तानुवाच तन्वङ्गी वचनं वोऽस्तु सत्फलम् ।
दासोऽयं भवतां विप्राः किं चित्रं सदुपासनात् ॥ २२॥
न सैन्यं सचिवाः कोशो न सहायश्च कश्चन ।
केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति ॥ २३॥
आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः ।
भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः ॥ २४॥
व्यास उवाच ।
रथारूढः स मेधावी यत्र याति सुदर्शनः ।
अक्षौहिणीसमावृत्त इवाभाति स तेजसा ॥ २५॥
प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते ।
एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा ॥ २६॥
सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् ।
जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात् ॥ २७॥
न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् ।
प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम ॥ २८॥
ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः ।
येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ॥ २९॥
या माता सर्वदेवानां युगादौ परिकीर्तिता ।
आदिमातेति विख्याता नाम्ना तेन कुरूद्वह ॥ ३०॥