Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्

Containing 116 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.५ पञ्चमोऽध्यायः ।

हयग्रीवावतारकथनम् ।

ऋषय ऊचुः ।

सूतास्माकं मनः कामं मग्नं संशयसागरे ।

यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 2

यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् ।

हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 3

वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः ।

आदिदेवो जगन्नाथः सर्वकारणकारणः ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 4

तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा ।

तत्सर्वं कथयाशु त्वं विस्तरेण महामते ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 5

सूत उवाच ।

श‍ृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः ।

चरितं देवदेवस्य विष्णोः परमतेजसः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 6

कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः ।

दशवर्षसहस्राणि परिश्रान्तो जनार्दनः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 7

समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः ।

अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 8

दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः ।

श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 9

तदा कालेन कियता देवाः सर्वे सवासवाः ।

ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 10

गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् ।

देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 11

अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते ।

यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 12

ददृशुस्ते तदेशानं योगनिद्रावशं गतम् ।

विचेतनं विभुं विष्णुं तत्रासाञ्चक्रिरे सुराः ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 13

स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतौ ।

चिन्तामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 14

तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः ।

निद्राभङ्गः कथं कार्यश्चिन्तयन्तु सुरोत्तमाः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 15

तमुवाच तदा शम्भुर्निद्राभङ्गेऽस्ति दूषणम् ।

कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 16

उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना ।

तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम् ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 17

भक्षितेऽग्रे तदा निम्नं गमिष्यति शरासनम् ।

तदा निद्राविमुक्तोऽसौ देवदेवो भविष्यति ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 18

देवकार्यं तदा सर्वं भविष्यति न संशयः ।

स वम्रीं सन्दिदेशाथ देवदेवः सनातनः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 19

तमुवाच तदा वम्री देवदेवस्य मापतेः ।

निद्राभङ्गः कथं कार्यो देवस्य जगतां गुरोः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 20

निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् ।

शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 21

तत्कथं देवदेवस्य करोमि सुखनाशनम् ।

किं फलं भक्षणाद्देव येन पापं करोम्यहम् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 22

सर्वः स्वार्थवशो लोकः कुरुते पातकं किल ।

तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 23

ब्रह्मोवाच ।

तव भागं करिष्यामो मखमध्ये यथा श‍ृणु ।

तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 24

होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति ।

तत्ते भागं विजानीहि कुरु कार्यं त्वरान्विता ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 25

सूत उवाच ।

इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता ।

चखाद संस्थितं भूमौ विमुक्ता ज्या तदाभवत् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 26

प्रत्यञ्जायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा ।

शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 27

ब्रह्माण्डं क्षुभितं सर्वं वसुधा कम्पिता तदा ।

समुद्राश्च समुद्विग्नास्त्रेसुश्च जलजन्तवः ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 28

ववुर्वातास्तथा चोग्राः पर्वताश्च चकम्पिरे ।

उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 29

दिशो घोरतराश्चासन्सूर्योऽप्यस्तङ्गतोऽभवत् ।

चिन्तामापुः सुराः सर्वे किं भविष्यति दुर्दिने ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 1, अध्याय 5: हयग्रीवावतारकथनम्, Verse 30

एवं चिन्तयतां तेषां मूर्धा विष्णोः सकुण्डलः ।

गतः समुकुटः क्वापि देवदेवस्य तापसाः ॥ ३०॥