Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 1

३.१७ सप्तदशोऽध्यायः ।

विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।

व्यास उवाच ।

इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः ।

मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 2

किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत ।

बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 3

रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता ।

राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 4

नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् ।

गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 5

निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् ।

हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 6

प्रधान उवाच ।

साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः ।

विश्वामित्रस्य दृष्टान्तः कथितस्तेन मारिष ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 7

पुरा गाधिसुतः श्रीमान्विश्वामित्रोऽतिविश्रुतः ।

विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात् ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 8

नमस्कृत्य च तं राजा विश्वामित्रः प्रतापवान् ।

उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 9

निमन्त्रितो वसिष्ठेन भोजनाय महात्मना ।

ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 10

नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् ।

भुक्त्वा राजा ससैन्यश्च वाञ्छितं तत्र भोजनम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 11

प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः ।

ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 12

विश्वामित्र उवाच ।

मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् ।

नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 13

वसिष्ठ उवाच ।

होमधेनुरियं राजन्न ददामि कथञ्चन ।

सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 14

विश्वामित्र उवाच ।

अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् ।

द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 15

वसिष्ठ उवाच ।

कामं गृहाण नृपते बलादद्य यथारुचि ।

नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 16

तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् ।

नयघ्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 17

ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् ।

वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 18

मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् ।

मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 19

बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे ।

किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 20

इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह ।

हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 21

उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा ।

सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 22

सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता ।

एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 23

हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् ।

ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 24

तप्त्वा बहूनि वर्षाणि तपो घोरं महावने ।

ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 25

तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् ।

कुलनाशकरं नूनं तापसैः सह संयुगम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 26

मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् ।

सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 27

बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् ।

वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 28

दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् ।

ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 29

वज्रं तृणायते राजन् दैवयोगान्न संशयः ।

तृणं वज्रायते क्वापि समये दैवयोगतः ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 17: विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्, Verse 30

शशको हन्ति शार्दूलं मशको वै तथा गजम् ।

साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम् ॥ ३०॥